Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 213
________________ १९० गुरुतत्त्वसिद्धिः चात्रेदमाशङ्कनीयम्-एकविभक्तिनिर्देशात् समुदिता एवामी पूज्या न वियुताः, ततः पूर्वोक्तव्याहतिः, यतस्तत्रैव निषेधे एकत्रेदमुक्तं-"नाणमंतेसु भत्तीबहुमाणो कायचो ।" "तथा नाणाइमंतेसु भत्ती" इत्यादि । दर्शनज्ञाने तु यद्यपि युक्ते सर्वदैव भवतः, तथापि विशिष्टज्ञानरहितं केवलं दर्शनं भण्यते इत्यादि स्वधियाऽभ्यूह्यं गीतार्थरिति गाथार्थः ।।३३।। (२५/३) पृ. ७४ पं. १७ (गुरुतत्त्वविनिश्चय उल्लास-१) तथाहिदसणनाणचरित्तं, तवविणयं जत्थ जत्तियं पासे । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं ।।१२२।। 'दंसण'त्ति । दर्शनं च-निःशङ्कितादिगुणोपेतं सम्यक्त्वं ज्ञानं च-आचारादिश्रुतं चारित्रं चमूलोत्तरगुणानुपालनात्मकं दर्शनज्ञानचारित्रम्, द्वन्द्वैकवद्भावः । एवं तपश्च-अनशनादि विनयश्चाभ्युत्थानादिस्तपोविनयम् । एतद्दर्शनादि 'यत्र' पार्श्वस्थादौ पुरुषे 'यावद्' यत्परिमाणं स्वल्पं बहु वा जानीयात् तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव 'भक्त्या' कृतिकर्मादिलक्षणया पूजयेदिति ।।१२२।। (२६/१) पृ. ८० पं. ४ (श्रावकधर्मविधिप्रकरण) स चायं विधिःगुरुमूले सुयधम्मो, संविग्गो इत्तरं व इयरं वा । वज्जित्तु तओ सम्म, वज्जेइ इमे अईयारे ॥७९।। 'गुरुमूले' गाहा व्याख्या- 'गुरुमूले' आचार्याद्यन्तिके 'श्रुतधर्मा' आकर्णिताऽणुव्रतादिः, 'संविग्नः' मोक्षसुखाभिलाषी, न तु ऋद्धिकामः, 'इत्वरं' चातुर्मास्याऽऽदिकालाऽवधिना 'इतरद्वा' यावत्कथिकमेव 'वर्जयित्वा' प्रत्याख्याय वधमिति प्रकृतम् । 'ततः' तदनन्तरं 'सम्यक्' अध्यवसायविशुद्ध्या 'वर्जयति' परिहरते, विरतिपरिणतौ प्रत्याख्याने सत्येवं प्रवृत्तिरेव नाऽस्य संभवतीत्यर्थः । 'इमान्' वक्ष्यमाणलक्षणान्, कान् ? अतिचरणान्यतीचाराः-प्रत्याख्यानमलिनताहेतवो व्यापारास्तान् । इति गाथार्थः ॥७९।। (पंचाशकप्रकरण) (२६/२) पृ. ८० पं. ४ विधिनेत्युक्तमथ तमेव वधवर्जनविधिं तदुत्तरविधिं च दर्शयन्नाहगुरुमूले सुयधम्मो संविग्गो इत्तरं व इयरं वा । वज्जित्तु तओ सम्मं वज्जेइ इमे य अइयारे ।।९।। व्याख्या-गुरुः सम्यग्ज्ञानक्रियायुक्तः सम्यग्धर्मशास्त्रार्थदेशकः, यदाह

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260