Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
१९४ गुरुतत्त्वसिद्धिः
-ON कादाचित्कत्वाच्च । नवरं केवलमयं विशेषः-सत्त्वेन-कषायसत्तया । अप्रमत्तयतयोऽपि सप्तमगुणस्थानवर्तिनोऽपि कषायकुशीला भण्यन्ते। अत एवंभूताः कषायकुशीला अपि यावत्तीर्थं भवन्तीति भावः ।।१७५।।
(३०) पृ. ८५ पं. ५
(धर्मरत्नप्रकरण) ननु किं चरित्रवतोप्यसद्ग्रहः संभवति ? मतिमोहोऽपि कुत इति चेदुच्यते - विहि उज्जमवनयभयउस्सगवववायतदुभयगयाइं । सुत्ताई बहुविहाइं, समए गंभीरभावाइं ।।१०६।।
विधिश्च उद्यमश्च वर्णकश्च भयं चोत्सर्गश्चापवादश्च तदुभयं चेति द्वन्द्वस्तस्य च स्वपदप्रधानत्वाद्गतानीति प्रत्येकमभिसंबध्यते, सूत्राणि च विशेष्याणि । ततश्चैवं योज्यते - कानिचिद्विधिगतानि सूत्राणि सन्ति, यथा -
'संपत्ते भिक्खकालंमि असंभंतो अमुच्छिओ । इमेण कमजोएण, भत्तपाणं गवेसई' ।। इत्यादीनि पिण्डग्रहणविधिज्ञापकानि । कानिचिदुद्यमसूत्राणि, यथा - 'दुमपत्तए पंडुयए, जहा निवडइ राइगणाण अच्चए । एवं मणुयाण जीवियं, समयं गोयम! मा पमायए' ।। इत्यादीनि । तथा - "वंदइ उभओ कालंपि चेइयाइं थयथुईपरमो । जिणवरपडिमा घरधूयपुप्फगंधच्चणे जुत्तो ।।१॥"
कालनिरूपणस्योद्यमहेतुत्वान्न पुनरन्यदाऽपि चैत्यवन्दनं न धर्मायेति । वर्णकसूत्राणि चरितानुवादरूपाणि । यथा द्रौपद्या पुरुषपञ्चकस्य वरमालानिक्षेपः, ज्ञाताधर्मकथाद्यङ्गेषु नगरादिवर्णकरूपाणि च वर्णकसूत्राणि । भयसूत्राणि नारकादिदुःखदर्शकानि । उक्तं च -
'नरएसु मंसरुहिराइवन्नणं, जं पसिद्धिमित्तेण । भयहेउ इहर तेसिं वेउब्बियभावओ न तयं ।।१।।' अथवा दुःखविपाकेषु पापकारिणां चरितकथनानि भयसूत्राणि । तद्भयात्प्राणिनां पापनिवृत्तिसंभवात् ।
उत्सर्गसूत्राणि - 'इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभेज्जा ।' इत्यादि षड्जीवनिकायरक्षाविधायकानि । अपवादसूत्राणि प्रायश्छेदग्रन्थगम्यानि । यद्वा -
'न यालभेज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । इक्कोवि पावाइं विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ।।' इत्यादीन्यपि । . तदुभयसूत्राणि येषूत्सर्गापवादौ युगपत्कथ्यते । यथा - 'अट्टज्झाणाभावे संमं अहियासियव्दओ वाही । तब्भावपि उ विहिणा, पडियारपवत्तणं नेयं ।।१।।' एवं 'सूत्राणि बहुविधानि' स्वसमय-परसमय-निश्चय-व्यवहार-ज्ञान-क्रियादिनानानयमतप्रकाशकानि

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260