Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
२१०
गुरुतत्त्वसिद्धिः प्रतिदिनक्रियादिषु आयुक्तोऽप्रमादी, एतेनावसन्नतावपरीत्यं भावयति, संयोगेनामीषां पदानां द्व्यादिमीलकेन संयमाराधका भणितास्तीर्थकरगणधरैस्तद्वन्त इति गम्यते । अत्रापि यथा यथा पदवृद्धिस्तथा तथा गुणवृद्धिर्द्रष्टव्येति ।।३८८।। __अत्र गच्छगतो न एकाकी । अनुयोगी न पार्श्वस्थो गुरुसेवी न स्वच्छन्दः । अनियतवासी न नित्यवासी । आयुक्तो नाऽवसन्नः । अत्र च पदानां वृद्ध्या गुण-वृद्धिः । अत्र गच्छगतत्वादिपदचतुष्कयोगेऽनुयोगित्वायुक्तत्वयोरन्यतरस्यायोगे पार्श्वस्थत्वस्यावसन्नत्वस्य वा भावेऽपि संयमाराधकत्वं भणता, भणितमेव पार्श्वस्था-दीनामपि चारित्रित्वम् ।
(३५/२) पृ. १०६ पं. १४
(उपदेशमाला हेयोपादेया टीका) एते चैवंविधाः कर्मपरतन्त्रतया तारतम्येनाऽनेकाकारा भवन्तीत्याह च - एगागी पासत्थो, सच्छंदो ठाणवासि ओसनो । दुगमाई संजोगा, जह बहुआ तह गुरू हुंति ।।३८७॥
व्याख्या-'एगागी'त्ति एकाकी धर्मबन्धवशिष्यरहितः १, पार्श्वस्थो ज्ञानादीनां पार्श्ववर्ती २, 'सच्छंदो'त्ति गुर्वाज्ञारहितः ३, स्थाने एकस्मिन्नेव स्थाने वसतीति स्थानवासी ४, 'ओसनो' इति प्रतिक्रमणादिक्रियाशिथिलः ५; एतेषां दोषाणां मध्ये व्यादिसंयोगाः, द्वौ दोषौ, त्रयो दोषाः, चत्वारो दोषाः, पञ्च दोषाः, एवं मिलिताः 'जह' इति यथा यस्मिन् पुरुषे बहवो भवन्ति 'तह' इति तथा स गुरुविराधको भवतीत्यर्थः ।।३८७॥
गच्छगओ अणुओगी, गुरुसेवी अणियओ गुणाउत्तो । संजोएण पयाणं, संजमआराहगा भणिया ।।३८८।।
व्याख्या-'गच्छ' इति गच्छगतो गच्छमध्ये तिष्ठति, 'अणुओगी'त्ति अनुयोगो ज्ञानाद्यासेवनं तत्रोद्यमवान्, गुरुसेवाकारकः, अनियतवासी मासकल्पादिना विहारकारी, आयुक्तः प्रतिक्रमणादिक्रियायां, एतेषां पञ्चपदानां संयोगेन संयमस्य चारित्रस्याराधका भणिताः, यत्रैते गुणा बहवः स विशेषेणाराधक इत्यर्थः ।।३८८।।
(३६) पृ. १११ पं. १२
(बृहत्कल्पसूत्र) तत्र कालेन यथा विनश्यति तथा दर्शयतिएसणदोसे सीयइ, अणाणुतावी ण चेव वियडेइ । णेव य करेइ सोधि, ण त विरमति कालतो भस्से ।।४५२०॥
एषणादोषेषु सीदति, तद्दोषदुष्टं भक्त-पानं गृह्णातीत्यर्थः । एवं कुर्वनपि पश्चात्तापं करिष्यति इत्याह-'अननुतापी' पुरःकर्मादिदोषदुष्टाहारग्रहणाद् अनु-पश्चात् तप्तुं-'हा ! दुष्टु कृतं मया' इत्यादिमानसिकतापं धर्तुं शीलमस्येत्यनुतापी, न तथा अननुतापी । कथमेतद् ज्ञायते ? इत्याह-'न चैव विकटयति'

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260