Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 240
________________ परिशिष्ट-१ २१७ व्याख्या-सधेन प्रतीतेन पुनः बहिस्ताद्योऽनिर्दिष्टनामा विहितः कृतः भवेज्जायेत स पुनर्नो नैव वन्द्यो नमस्करणीयः पार्श्वस्थादिः प्रतीतः श्राद्धानां श्रावकाणां सर्वथा सर्वेः प्रकारैरेषो निर्दिष्टरूपपरमार्थस्तत्त्वमिति गाथार्थः ।। (४८/१) पृ. १२८ पं. २१ (पिंडविशुद्धि) अथैतावदोषरहितपिण्डस्याभावे मुनिः किं कुर्यादित्याहसोहिंतो य इमे तह, जइज्ज सव्वत्थ पणगहाणीए । उस्सग्गऽववायविऊ, जह चरणगुणा न हायंति ।।१०१।। व्याख्या-'शोधयन्' विशुद्धपिण्डग्रहणार्थमवलोकयन्, चः शब्दः प्राक्तनोपदेशापेक्षयोपदेशान्तरसमुच्चयार्थः, कानित्याह-'इमान्' अनन्तरोक्तदोषान् 'तथा' तेन सर्वथा शुद्धाहाराप्राप्तौ मनागशुद्धादितद्ग्रहणलक्षणेन-प्रकारेण 'यतेत' यतनां कुर्यात् । क्व ? सर्वत्र क्षेत्रकालादौ । कया करणभूतयेत्याहपञ्चकहान्या, इहाऽकृतवीप्सोऽपि पञ्चकशब्दस्तदर्थसम्भवाद्वीप्सार्थो व्याख्येयस्ततश्च पञ्चकेन पञ्चकेनाऽऽगमप्रसिद्धप्रायश्चित्तलक्षणेन कृत्वा यका 'हानिः' स्वानुष्ठानव्ययो, व्येति चाऽशुद्धाहारग्रहणादिनाऽपराधसम्भवे तच्छुद्ध्यर्थं विधीयमानमनुष्ठानं, नृपापराधे दीयमानदण्डद्रव्यवत्, सा पञ्चकपरिहाणिस्तया, एतदुक्तं भवति-सर्वथा शुद्धाहारस्याऽप्राप्तौ लघुगुरुपञ्चकप्रायश्चित्तार्हदोषदुष्टमाहारं गृह्णीयात्, तस्याऽप्राप्तौ लघुगुरुदशकप्रायश्चित्तार्हदोषवन्तं, तस्याऽप्यभावे लघुगुरुपञ्चदशकप्रायश्चित्तार्हदोषदुष्टमित्यादि, न पुनः कारणोत्पत्तावपि गुरुगुरुतरप्रायश्चित्तशोध्यगुरुगुरुतरदोषदुष्टमशनादि प्रथमत एवासेवेतेति । कः ? इत्याह'उत्सर्गापवादौ' कारणाभावसद्भावौ 'वेत्ति' अवगच्छति यः स उत्सर्गापवादविद्वान-सम्यगधीतच्छेदादिश्रुत इत्यर्थः । साधुरिति गम्यते । 'यथा' येन देहोपष्टम्भकरणलक्षणेन प्रकारेण 'चरणगुणा' आवश्यकादयश्चारित्रधर्मा 'न' नैव 'हीयन्ते' हानिमुपगच्छन्तीति गाथार्थः ।।१०१।। (४९) पृ. १३१ पं. १ (दर्शनविशुद्धि) तादृशाश्च दृश्यन्त एव। तथाहिअज्ज वि तिनपइन्ना गरुयभरुव्वहणपच्चला लोए । दीसंति महापुरिसा अक्खंडियसीलपन्भारा ।।१७९।। सुगमा । नवरम्, 'तिन्नपइन्ना' तीर्णसामायिकादिप्रतिज्ञाः । 'गुरुयभरुव्वहणपच्चला' दुर्वहसंयमभारोद्वहनसमर्थाः ।।१७९।। तथाअज्ज वि तवसुसियंगा तणुअकसाया जिइंदिया धीरा । दीसंति जए जइणो वम्महहिययं वियारंता ।।१८०।। स्पष्टैव ।।१८०।।

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260