Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - १
कर्तृत्वावधारणार्थः, गोपनं गुप्तिः, स्त्रियां क्तिप्रत्ययः, आगन्तुककर्म्मकचवरनिरोध इति हृदयं, गुप्तिकरणशीलो गुप्तिकरो, हेतुतच्छीलानुकूलेष्वित्यादिना टप्रत्ययः, किमुक्तं भवति ? संयमोऽप्यपूर्वकर्म्मकचवरागमननिरोधेनोपकुरुते, तत्स्वभावत्वात्, गृहशोधने पवनप्रेरितकचवरागमननिरोधेन वातायनादिस्थगनवत्, एवं च त्रयाणामेव, अपिशब्दोऽवधारणे, अथवा सम्भावने, किं सम्भावयति ? त्रयाणामपि ज्ञानादीनां किंविशिष्टानाम् ? निश्चयतः क्षायिकाणां न तु क्षायोपशमिकानामपि, समायोगे-संयोगे मोक्षः- सर्वथा अष्टविधकर्ममलवियोगलक्षणः जिनानां शासनं जिनशासनं तस्मिन् 'भणितः ' उक्तः । नन्वेवं सति सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेणोक्तलक्षणज्ञानादित्रयादेव मोक्षप्रतिपादनाद्, नैष दोष:, ज्ञानग्रहणेन तस्यापि ग्रहणाद्, अन्यथा ज्ञानत्वायोगात्, अत एवान्यत्र चतुष्टयमुक्तं
-
"ज्ञानं सुमार्गदीपं सम्यक्त्वं तदपराङ्मुखत्वाय ।
चारित्रमास्रवघ्नं क्षपयति कर्माणि तु तपोऽग्निः ।। १ ।। " इति । । १०३ ।।
(४५) पृ. १२३ पं. १५
(आवश्यक नियुक्ति अंतर्गत ध्यानशतक
झाइज्जा निरवज्जं जिणाणमाणं जगप्पईवाणं । अणिउणजणदुण्णेयं नयभंगपमाणगमगहणं ।।४६।।
(४६) पृ. १२३ पं. १८
व्याख्या- - 'ध्यायेत्' चिन्तयेदिति सर्वपदक्रिया, 'निरवद्या 'मिति अवद्यं पापमुच्यते निर्गतमवद्यं यस्याः सा तथा ताम्, अनृतादिद्वात्रिंशद्दोषावद्यरहितत्वात् क्रियाविशेषणं वा, कथं ध्यायेत् ? - निरवद्यम्इहलोकाद्याशंसारहितमित्यर्थः, उक्तं च- 'नो इहलोगट्टयाए नो परलोगट्टयाए नो परपरिभवओ अहं नाणी 'त्यादिकं निरवद्यं ध्यायेत्, 'जिनानां' प्राग्निरूपित शब्दार्थानाम् 'आज्ञां' वचनलक्षणां कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा तां, किंविशिष्टां ? - जिनानां केवलालोकेनाशेषसंशयतिमिरनाशनाज्जगत्प्रदीपानामिति, आज्ञैव विशेष्यते- 'अनिपुणजनदुर्ज्ञेयां' न निपुणः अनिपुणः अकुशल इत्यर्थः जनःलोकस्तेन दुर्ज्ञेयामिति-दुरवगमां, तथा 'नयभङ्गप्रमाणगमगहनाम्' इत्यत्र नयाश्च भङ्गाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना - गवरा तां, तत्र नैगमादयो नयास्ते चानेकभेदाः, तथा भङ्गाः क्रमस्थानभेदभिन्नाः, तत्र क्रमभङ्गा यथा एको जीव एक एवाजीव इत्यादि, स्थापना । स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः नो दृढधर्मेत्यादि । तथा प्रमीयते ज्ञेयमेभिरिति प्रमाणानि द्रव्यादीनि, यथाअनुयोगद्वारेषु गमाः- चतुर्विंशतिदण्डकादयः, कारण वशतो वा किञ्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिकाssदाविति कृतं विस्तरेणेति गाथार्थः । । ४६ ।।
܀܀܀
अमुमेवार्थं सङ्कलय्योपसंहरन्ति
पुव्वावरेण परिभाविऊण सुत्तं पयासियव्वमिणं । जं वयणपारतंतं एवं धम्मत्थिणो लिंगं ॥। ६५ ।।
-
२१५
हरिभद्रसूरि टीका)
(पाक्षिकसप्तति)

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260