Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - १
२१३
सत्यकिनः 'अनुत्तरा' प्रधाना क्षायिकेति यदुक्तं भवति, का ? - दर्शनसम्पत् 'तदा' तस्मिन् काले, तथाऽपि विना चारित्रेण 'अधरां गतिं गता' नरकगतिं प्राप्ता इति वृत्तार्थः ।।११६०।।
***
Co
(४२) पृ. १२१ पं. ९
इय नाणचरणहीणो सम्मद्दिट्ठीवि मुक्खदेसं तु । पाउणइ नेय नाणाइसंजुओ चेव पाउणइ ||३|| (प्र०)
व्याख्या-'इय' एवं ज्ञानचरणरहितः सम्यग्दृष्टिरपि तत्त्वश्रद्धानयुक्तोऽपि मोक्षदेशं तु न प्राप्नोति, नैव सम्यक्त्वप्रभावादेव, किन्तु ज्ञानादिसंयुक्त एव प्राप्नोति, तस्मात्त्रितयं प्रधानम्, अतस्त्रितययुक्तस्यैव कृतिकर्म कार्यं, त्रितयं चाऽऽत्मनाऽऽसेवनीयं, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' (तत्त्वा. अ. १ सू. १) इति वचनादयं गाथात्रितयार्थः । ।१ - २ - ३ ।।
(४३) पृ. १२१ पं. १८
***
(आवश्यक निर्युक्ति हरिभद्रसूरि टीका )
यदुक्तं 'मोक्षमार्गगतिं शृणुते ति, तत्र मोक्षमार्गं तावदाह नाणं च दंसणं चेव, चरितं च तवो तहा । एस मग्गुत्ति पत्रत्तो, जिणेहिं वरदंसिहिं ।।२।।
(उत्तराध्ययनसूत्र)
ज्ञायते - अवबुध्यतेऽनेन वस्तुतत्त्वमिति ज्ञानं तच्च सम्यग्ज्ञानमेव ज्ञानावरणक्षयक्षयोपशमसमुत्थं मत्यादिभेदं, दृश्यते तत्त्वमस्मिन्निति दर्शनम्, इदमपि सम्यग्रूपमेव, दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्पादितमर्हदभिहितजीवादितत्त्वरुचिलक्षणात्मशुभभावरूपम्, 'एव' अवधारणे भिन्नक्रमश्चोत्तरत्र योक्ष्यते, चरन्तिगच्छन्त्यनेन मुक्तिमिति चरित्रम्, एतदपि सम्यग्रूपमेव चारित्रमोहनीयक्षयादित्रयप्रादुर्भूतसामायिकादिभेदं सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं, तपति पुरोपात्तकर्माणि क्षपणेनेति तपो- बाह्याभ्यन्तरभेदभिन्नं यदर्हद्वचनानुसारि तदेव समीचीनमुपादीयते, इत्थं चैतत् सर्वत्र मोक्षमार्गगतिप्रस्तावाद्विपर्यस्तज्ञानादीनां तत्कारणताऽनुपपत्तेरन्यथाऽतिप्रसङ्गात्तथेति, सर्वत्र चशब्दः समुच्चये, सर्वत्र समुच्चयाभिधानं समुदितानामेव मुक्तिमार्गत्वख्यापकम्, एष एव 'मार्ग' इति मार्गशब्दवाच्यः, अस्यैव मुक्तिप्रापकत्वात् 'प्रज्ञप्तः' प्रज्ञापितः 'जिनैः' तीर्थकृद्भिः वरं समस्तवस्तुव्यापितयाऽव्यभिचारितया च द्रष्टुं प्रेक्षितुं शीलमेषां ते वरदर्शिनस्तैः, इह च चारित्रभेदत्वेऽपि तपसः पृथगुपादानमस्यैव क्षपणं प्रत्यसाधारणहेतुत्वमुपदर्शयितुं, तथा च वक्ष्यति - 'तवसा ( उ ) विसुज्झइति सूत्रार्थः ।।२।।
(४४ / १) पृ. १२२ पं. २
(आवश्यकनिर्युक्ति हरिभद्रसूरि टीका )
आह-ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ? किमविशेषेण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिव्रातवद् इति, अत्रोच्यते, भिन्नस्वभावतया, यत
-

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260