Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 243
________________ २२० गुरुतत्त्वसिद्धिः स्थविरकल्पिकानां वस्त्रपात्रादिपरिभोगरूपो यथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयायेति, इह च समाधिः-द्वावपि कम्मक्षयहेतू अवस्थाभेदेन जिनोक्तत्वात्, कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति । तथा मार्गः-पूर्वपुरुषक्रमागता सामाचारी, तत्र केषाञ्चिद्विश्चैत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽवश्यकसामाचारी तदन्येषां तु न तथेति किमत्र तत्त्वमिति, समाधिश्चगीतार्थाशठप्रवर्तिताऽसौ सर्वाऽपि न विरुद्धा, आचरितलक्षणोपेतत्वात्, आचरितलक्षणं चेदम् - 'असढेण समाइन्नं जं कत्थइ केणई असावज्जं । न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ।।१।।' ति । तथा मतं-समान एवागमे आचार्याणामभिप्रायः, तत्र च सिद्धसेनदिवाकरो मन्यते-केवलिनो युगपद् ज्ञानं दर्शनं च, अन्यथा तदावरणक्षयस्य निरर्थकता स्यात्, जिनभद्रगणि-क्षमाश्रमणस्तु भिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात्, तथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगी, न चैकतरोपयोगे इतरक्षयोपशमाभावः, तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वादतः किं तत्त्वमिति, इह च समाधिः-यदेव मतमागमानुपाति तदेव सत्यमिति मन्तव्यमितरत्पुनरुपेक्षणीयम्, अथ चाबहुश्रुतेन नैतदवसातुं शक्यते तदैवं भावनीयम्-आचार्याणां संप्रदायादिदोषादयं मतभेदः, जिनानां तु मतमेकमेवाविरुद्धं च, रागादिविरहितत्वात्, आह च - 'अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा ।। जियरागदोसमोहा य णण्णहावाइणो तेणं ।।१।।' ति । तथा भङ्गाः-द्व्यादिसंयोगभङ्गकाः, तत्र च द्रव्यतो नाम एका हिंसा न भावत इत्यादि चतुर्भङ्ग्युक्ता, न च तत्र प्रथमोऽपि भङ्गो युज्यते, यतः किल द्रव्यतो हिंसा-ईर्यासमित्या गच्छतः पिपीलिकादिव्यापादनं, न चेयं हिंसा, तल्लक्षणायोगात्, तथाहि - 'जो उ पमत्तो पुरिसो तस्स उ जोगं पडुच्च जे सत्ता । वावज्जती नियमा तेसिं सो हिंसओ होइ ।।१।।' त्ति, उक्ता चेयमतः शङ्का, न चेयं युक्ता, एतद्गाथोक्तहिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात्, द्रव्यहिंसायास्तु मरणमात्रतया रूढत्वादिति । तथा नया-द्रव्यास्तिकादयः, तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकनयमतेन कथं तदेवानित्यं ? विरुद्धत्वात्, इति शङ्का, इयं चायुक्ता, द्रव्यापेक्षयैव तस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात्, दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणां समावेशो, यथा जनकापेक्षया य एव पुत्रः स एव पुत्रापेक्षया पितेति । तथा नियमः-अभिग्रहः, तत्र यदि नाम सर्वविरतिः सामायिकं तदा किमन्येन पौरुष्यादिनियमेन ? सामायिकेनैव सर्वगुणावाप्तः, उक्तश्चासौ इति शङ्का, इयं चायुक्ता, यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च - 'सामाइए वि हु सावज्जचागरूवे उ गुणकरं एयं । अपमायवुड्डिजणगत्तणेण आणाओ विन्नेयं ।।१।।' ति । तथा प्रमाण-प्रत्यक्षादि, तत्रागमप्रमाणम्-आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति चक्षुःप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति सन्देहः, अत्र समाधिः-न हि सम्यक् प्रत्यक्षमिदं, दूरतरदेशतो विभ्रमादिति ।।सू. ३७।।

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260