Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 245
________________ २२२ गुरुतत्त्वसिद्धिः आचार्य इति शेषः, न चायं निजक उपकारी वा मम विनेय इति न दण्डनीय इति ज्ञापनार्थं च धर्म्यजीतविशेषणं, पठन्ति च-'तमायरंतो मेहावि'त्ति सुगममेवेति सूत्रार्थः ॥४२॥ (५४/१) पृ. १३७ पं. २३ (आवश्यकनियुक्ति हरिभद्रसूरि टीका) आह-सम्यक् तद्गतभावापरिज्ञाने सति किमित्येतदेवमिति, उच्यते, व्यवहारप्रामाण्यात्, तस्यापि च बलवत्त्वाद्, आह च भाष्यकारः - ववहारोऽविहु बलवं जं छउमत्थंपि वंदई अरहा । जा होइ अणाभिण्णो जाणतो धमयं एयं ।।१२३ ।।(भा.) व्याख्या-व्यवहारोऽपि च बलवानेव, 'यद्' यस्मात् छद्मस्थमपि पूर्वरत्नाधिकं गुर्वादिं वन्दते 'अर्हन्नपि' केवल्यपि, अपिशब्दोऽत्रापि सम्बध्यते । किं सदा ?, नेत्याह-'जा होइ अणाभिन्नो 'त्ति यावद् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दत इति, अत आह-जानन् धर्मतामेतां व्यवहारनयबलातिशयलक्षणामिति गाथार्थः ।।१२३॥ (५४/२) पृ. १३७ पं. २३ (आवश्यकनियुक्ति मलयगिरिसूरि टीका) आह-सम्यक्तद्भावापरिज्ञाने सति किमित्येवं क्रियते ?, उच्यते, व्यवहारप्रामाण्यात्, तस्यापि च बलवत्त्वात्, तथा चाह भाष्यकारः - ववहारोऽविहु बलवं जं छउमत्थंपि वंदई अरहा । जा होइ अणाभिण्णो जाणतो धमयं एवं ।।१२३ ।।(भा.) व्यवहारोऽपि बलवान् यत्-यस्मात् छद्मस्थमपि पूर्वरत्नाधिकं गुर्वादिं अर्हन्नपि-केवल्यपि वन्दते, अपिशब्दः अत्रापि संबध्यते, किं सदा ?, नेत्याह-'जा होइ अणाभिन्नो'त्ति यावद् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दते इत्याह-जानन् धर्मतामेतां, व्यवहारनयबलातिशयलक्षणामिति ।।१३७ ।। (भा० १२३ हा०) (५५) पृ. १३७ पं. २५ (पंचवस्तुक) एतदेवाहजइ जिणमयं पवज्जह ता मा ववहारणिच्छए मुअह । ववहारणउच्छेए तित्थुच्छेओ जओऽवस्सं ॥१७२।। यदि जिनमतं प्रपद्यध्वं यूयं ततो मा व्यवहारनिश्चयो मुञ्चत-मा हासिष्ठाः, किमित्यत्र आहव्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यम्, अतो व्यवहारतोऽपि प्रव्रजितः प्रव्रजित एव गाथार्थः।।१७२।।

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260