Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट-१
२११
गुरूणां पुरतः स्वदोषं न प्रकाशयति, विकटयति वा परं तस्य 'शोध' प्रायश्चित्तं गुरुप्रदत्तं नैव करोति, 'न च' नैव अशुद्धाहारग्रहणाद् विरमति । एवं कुर्वन् ‘कालतः' कियताऽपि कालेन चारित्रात् परिभ्रश्येत् । यस्तु मूलगुणान् विराधयति स सद्यः परिभ्रश्यति ।।४५२०।।
(३७) पृ. ११२ पं. १४
___(आवश्यकनियुक्ति हरिभद्रसूरि टीका) एवमसहायज्ञानपक्षे निराकृते ज्ञानचरणोभयपक्षे च समर्थिते सत्यपरस्त्वाह - गुणाहिए वंदणयं छउमत्थो गुणागुणे अयाणंतो । वंदिज्जा गुणहीणं गुणाहियं वावि वंदावे ।।११४७।।
व्याख्या-इहोत्सर्गतः गुणाधिके साधौ वन्दनं कर्तव्यमिति वाक्यशेषः, अयं चार्थः श्रमणं वन्देतेत्यादिग्रन्थात्सिद्धः, गुणहीने तु प्रतिषेधः पञ्चानां कृतिकर्मेत्यादिग्रन्थाद्, इदं च गुणाधिकत्वं गुणहीनत्वं च तत्त्वतो दुर्विज्ञेयम्, अतश्छद्मस्थस्तत्त्वतो गुणागुणान् आत्मान्तरवर्तिनः 'अजानन्' अनवगच्छन् किं कुर्यात् ?, वन्देत वा गुणहीनं कञ्चित्, गुणाधिकं चापि वन्दापयेत्, उभयथाऽपि च दोषः, एकत्रागुणानुज्ञाप्रत्ययः अन्यत्र तु विनयत्यागप्रत्ययः, तस्मात्तूष्णीभाव एव श्रेयान्, अलं वन्दनेनेति गाथाभिप्रायः ।।११४७।।
(३८/१) पृ. ११५ पं. १२
(उपदेशमाला हेयोपादेया टीका) समदश्च न गुरूपदेशयोग्यस्तथा न स्वार्थसाधक इत्याह - नियगमइविगप्पियचिंतिएण सच्छंदबुद्धिरइएण । कत्तो पारत्तहियं, कीरइ गुरुअणुवएसेणं ॥२६॥
निजकमतिविकल्पितचिन्तितेनेति, विकल्पितं स्थूलालोचनं, चिन्तितं सूक्ष्मालोचनम् । ततश्च गुरूपदेशाभावानिजकमत्याऽऽत्मीयबुद्ध्या विकल्पितचिंतिते यस्य स तथा तेन, अत एव स्वच्छंदबुद्धिरचितेन स्वतन्त्रमतिचेष्टितेनेत्यर्थः, कुतः परत्र हितं क्रियते ? न कुतश्चिदुपायाभावात् । केनेत्याह-उपदेशमर्हतीत्युपदेश्यः, ततोऽन्योऽनुपदेश्यः, गुरोरनुपदेश्यो गुर्वनुपदेश्यः, तेन गुरुकर्मणा शिष्येणेति शेषः ।।२६।।
(३८/२) पृ. ११५ पं. १२
(उपदेशमाला टीका) निअगमइ विगप्पिय चिंतिएण सच्छंदबुद्धिरइएण । कत्तो पारत्तहियं, कीरइ गुरुअणुवएसेणं ॥२६॥ इति ।
व्याख्या-'नियगमइ' इति निजकमत्या स्वकीयबुद्ध्या विकल्पितं स्थूलावलोकनं सूक्ष्मा-वलोकनं, तेन स्वकीयमतिकल्पनयेत्यर्थः, स्वच्छंदबुद्धिरचितेन स्वतन्त्रमतिचेष्टितेनेत्यर्थः । 'कत्तो' इति कुतः 'पारत्त' परत्र परे हितमात्मनो हितं 'कीरइ' इति क्रियते, गुर्वनुपदेशत उपदेशाऽयोग्येन गुरुकर्मणेति भावः, स्वेच्छाचारिणः परत्र हितं न प्राप्नुवन्तीत्यर्थः ।।२६॥

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260