Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 225
________________ २०२ गुरुतत्त्वसिद्धिः सच्छंदगमणउट्ठाण, सोयणो अप्पणेण चरणेण । समणगुणमुक्कजोगी, बहुजीवखयंकरो भमइ ॥३८०।। 'सच्छंद' गाहा, स्वच्छन्दं स्वाभिप्रायं गुर्वाज्ञां विना गमनोत्थानस्वपनानि यस्य स तथा अत एवात्मीयेन स्वबुद्धिकल्पितेन चरणेनाचरणेन भ्रमतीति सम्बन्धः । किम्भूतः सनित्याह-श्रमणानां गुणा ज्ञानादयः श्रमणगुणास्तेषु मुक्तस्त्यक्तो योगो व्यापारो येन स श्रमणगुणमुक्तयोगी सर्वधनादिपाठाद् इन्समासान्तोऽत एव बहुजीवक्षयकरोऽनेकप्राणिप्रलयकारी, अनुस्वारोऽलाक्षणिको भ्रमत्यनर्थकमटाट्यत इति ॥३८०।। बत्थिव्व वायपुनो, परिन्भमइ जिणमयं अयाणंतो । थद्धो निवित्राणो, न य पिच्छइ किंचि अप्पसमं ॥३८१।। 'बत्थिव्व' गाहा, बस्तिवच्चर्ममयो वातपूर्णो वायुपूरितोऽतिगर्वाध्मातत्वात् परिभ्रमति, जिनमतं मदगदौषधकल्पं सर्वज्ञवचनमजाननत एव स्तब्धः शरीरेऽपि दर्शितगर्वचिह्नः, निर्विज्ञानो ज्ञानिनो गर्वाभावात्, न च नैव पश्यति किञ्चिदात्मसममत्युत्सेकाज्जगदपि न्यूनं मन्यत इति ।।३८१।। सच्छंदगमणउट्ठाणसोयणो, भुंजए गिहीणं च । पासत्थाई ठाणा, हवंति एमाइया एए ।।३८२।। 'सच्छंद०' गाहा, स्वच्छन्दगमनोत्थानस्वपन इति पूर्ववत् किमर्थं पुनरुपादानमिति चेत्, सर्वे गुणा गुणवत्पारतन्त्र्यसाध्या इति ज्ञापनार्थं तद्रहितस्तु तेषामुपायेऽपि न वर्त्तते, दूरतस्तत्सम्बन्ध इति, भुङ्क्ते गृहिणां च मध्य इति शेषः, कियद्वात्र मोहपरतन्त्रचेष्टितं वक्ष्यत इति निगमयन्नाह-पार्श्वस्थादिस्थानानि भवन्त्येवमादीन्येतानि पुल्लिङ्गनिर्देशस्तु प्राकृतत्वाददुष्ट इति ।।३८२।। (३२/२) पृ. ८८ पं. २७ (उपदेशमाला टीका) किम्भूतास्तर्हि लिङ्गावशेषा भवन्तीत्याह - दगपाणं पुप्फफलं, अणेसणिज्जं गिहत्थकिच्चाई । अजया पडिसेवंती, जइवेसविडंबगा नवरं ॥३४९।। व्याख्या-'दगपाणं' इति दगपाणं शब्देन सचित्तजलपानं पुष्पं जात्यादीनां, फलमाम्रादीनां, 'अणेसणिज्ज' इति आधाकर्मादिदोषदुष्टमाहारादि, अयता असंयताः प्रतिसेवन्ते प्रतिकूलमाचरन्ति, नवरं केवलं ते वेषविडंबका एव, न तु स्वल्पमपि परमार्थसाधका इत्यर्थः ।।३४९।। ओसन्त्रया अबोही, य पवयणउन्भावणा य बोहिफलं । ओसनो वि वरं पिहु, पवयणउम्भावणापरमो ॥३५०॥ व्याख्या-'उसनया' इति एतादृशानां भ्रष्टाचाराणामवसन्नता पराभवो भवति, अबोधिर्धर्मप्राप्त्यभावः स्यात् । यतः प्रवचनस्य शासनस्योद्भावनायां प्रभावनायां वर्द्धितायां सत्यां बोधिरूपं फलं भवति, न

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260