________________
२०२
गुरुतत्त्वसिद्धिः
सच्छंदगमणउट्ठाण, सोयणो अप्पणेण चरणेण । समणगुणमुक्कजोगी, बहुजीवखयंकरो भमइ ॥३८०।।
'सच्छंद' गाहा, स्वच्छन्दं स्वाभिप्रायं गुर्वाज्ञां विना गमनोत्थानस्वपनानि यस्य स तथा अत एवात्मीयेन स्वबुद्धिकल्पितेन चरणेनाचरणेन भ्रमतीति सम्बन्धः । किम्भूतः सनित्याह-श्रमणानां गुणा ज्ञानादयः श्रमणगुणास्तेषु मुक्तस्त्यक्तो योगो व्यापारो येन स श्रमणगुणमुक्तयोगी सर्वधनादिपाठाद् इन्समासान्तोऽत एव बहुजीवक्षयकरोऽनेकप्राणिप्रलयकारी, अनुस्वारोऽलाक्षणिको भ्रमत्यनर्थकमटाट्यत इति ॥३८०।।
बत्थिव्व वायपुनो, परिन्भमइ जिणमयं अयाणंतो । थद्धो निवित्राणो, न य पिच्छइ किंचि अप्पसमं ॥३८१।।
'बत्थिव्व' गाहा, बस्तिवच्चर्ममयो वातपूर्णो वायुपूरितोऽतिगर्वाध्मातत्वात् परिभ्रमति, जिनमतं मदगदौषधकल्पं सर्वज्ञवचनमजाननत एव स्तब्धः शरीरेऽपि दर्शितगर्वचिह्नः, निर्विज्ञानो ज्ञानिनो गर्वाभावात्, न च नैव पश्यति किञ्चिदात्मसममत्युत्सेकाज्जगदपि न्यूनं मन्यत इति ।।३८१।।
सच्छंदगमणउट्ठाणसोयणो, भुंजए गिहीणं च । पासत्थाई ठाणा, हवंति एमाइया एए ।।३८२।।
'सच्छंद०' गाहा, स्वच्छन्दगमनोत्थानस्वपन इति पूर्ववत् किमर्थं पुनरुपादानमिति चेत्, सर्वे गुणा गुणवत्पारतन्त्र्यसाध्या इति ज्ञापनार्थं तद्रहितस्तु तेषामुपायेऽपि न वर्त्तते, दूरतस्तत्सम्बन्ध इति, भुङ्क्ते गृहिणां च मध्य इति शेषः, कियद्वात्र मोहपरतन्त्रचेष्टितं वक्ष्यत इति निगमयन्नाह-पार्श्वस्थादिस्थानानि भवन्त्येवमादीन्येतानि पुल्लिङ्गनिर्देशस्तु प्राकृतत्वाददुष्ट इति ।।३८२।।
(३२/२) पृ. ८८ पं. २७
(उपदेशमाला टीका) किम्भूतास्तर्हि लिङ्गावशेषा भवन्तीत्याह - दगपाणं पुप्फफलं, अणेसणिज्जं गिहत्थकिच्चाई । अजया पडिसेवंती, जइवेसविडंबगा नवरं ॥३४९।।
व्याख्या-'दगपाणं' इति दगपाणं शब्देन सचित्तजलपानं पुष्पं जात्यादीनां, फलमाम्रादीनां, 'अणेसणिज्ज' इति आधाकर्मादिदोषदुष्टमाहारादि, अयता असंयताः प्रतिसेवन्ते प्रतिकूलमाचरन्ति, नवरं केवलं ते वेषविडंबका एव, न तु स्वल्पमपि परमार्थसाधका इत्यर्थः ।।३४९।।
ओसन्त्रया अबोही, य पवयणउन्भावणा य बोहिफलं । ओसनो वि वरं पिहु, पवयणउम्भावणापरमो ॥३५०॥
व्याख्या-'उसनया' इति एतादृशानां भ्रष्टाचाराणामवसन्नता पराभवो भवति, अबोधिर्धर्मप्राप्त्यभावः स्यात् । यतः प्रवचनस्य शासनस्योद्भावनायां प्रभावनायां वर्द्धितायां सत्यां बोधिरूपं फलं भवति, न