________________
परिशिष्ट-१
२०१
बारस बारस तिन्नि य, काइयउच्चारकालभूमीओ । अंतो बहिं च अहियासि, अणहियासे न पडिलेहे ॥३७५॥
'बारस' गाहा, द्वादश द्वादश तिस्रश्च यथाक्रमं कायिकोच्चारकालभूमीः प्रश्रवणपुरीषकालग्रहणस्थानानीत्यर्थः, न प्रत्युपेक्षत इति सम्बन्धः, तत्रालयपरिभोगस्यान्तर्मध्ये षड् बहिश्च षडेव कायिकाया उच्चारस्य तथैव अहियासि अणहियासि त्ति सहिष्णोरसहिष्णोश्चार्थाय न प्रत्युपेक्षते, आसां च प्रमाणं तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्यगुलान्यचेतनमिति ।।३७५।।
गीयत्थं संविग्गं, आयरियं मुयइ चलइ गच्छस्स । गुरुणो य अणापुच्छा, जं किंची देइ गिण्हइ वा ॥३७६ ॥
'गीयत्थं' गाहा, गीतार्थमधिगतागम, संविग्नं मोक्षाभिलाषिणम्, आचार्यं निजगुरुं मुञ्चति निष्प्रयोजनं परित्यज्य गच्छतीत्यर्थः । इह च गीतार्थसंविग्नग्रहणमगीतार्थाऽसंविग्नं पुनरागमप्रतिपादितक्रमेणात्मानं मोचयित्वा मुञ्चतोऽपि न दोष इति ज्ञापनार्थं, वलते तदुत्तरदानायाभिमुखो भवति गच्छस्य क्वचिच्चोदनां कुर्वत इति गम्यते, गुरोश्चानापृच्छया तृतीयार्थे प्रथमा, यत् किञ्चिद् वस्त्रादिकं ददाति कस्मैचिद्, गृह्णाति वा कुतश्चिदिति ।।३७६।।
गुरुपरिभोगं भुंजइ, सिज्जासंथारउवगरणजायं । किं ति य तुमं, ति भासइ अविणीओ गविओ लुद्धो ॥३७७॥
'गुरु०' गाहा, गुरुणा परिभुज्यमानं भुङ्क्ते, किं तदित्याह-शय्यासंस्तारकोपकरणजातं, तत्र शेतेऽस्यामिति शय्या शयनभूमिः, संस्तारकः काष्ठमयादिः, उपकरणजातं वर्षाकल्पादि गुरोश्च सम्बन्धि सर्वं वन्द्यमेव भवति, न भोग्य, तथा आहूतः किमिति च भाषते, तत्र हि मस्तकेन वन्दे इत्यभिधातव्यम्, आलपंश्च त्वमिति गुरुं प्रतिभाषते, यूयमिति तत्र च वक्तव्यं बहुवचनार्हत्वादत एव विपरीतकरणादविनीतः, अविनयहेतुमाह-गर्वितः सोत्सेकः, लुब्धो विषयादौ गृद्ध इति ।।३७७।।
गुरुपच्चक्खाणगिलाणसेहबालाउलस्स गच्छस्स । न करेइ नेव पुच्छइ, निद्धम्मो लिंगउवजीवी ॥३७८॥
'गरु०' गाहा, गुरुः प्रतीतः, प्रत्याख्यानस्तत्सम्बन्धादनशनी क्षपको वा, ग्लानो रोगी, शैक्षकोऽभिनवदीक्षितः, बालः शिशुः, गुरुश्च प्रत्याख्यानश्चेत्यादिद्वन्द्वस्तैराकुलः सङ्कीर्णस्तस्य गच्छस्य न करोति यत् कृत्यं स्वयमेव नैव पृच्छति विदुषः किं मया कर्त्तव्यमित्यत एव निर्धर्मो निराचारो लिङ्गोपजीवी वेषोपजीवक इति ।।३७८।।।
पहगमणवसहिआहार-सुयणथंडिल्लविहिपरिट्ठवणं । नायरइ नेव जाणइ, अज्जावट्टावणं चेव ।।३७९।।
'पह०' गाहा, पथगमनं च वसतिश्च आहारश्च स्वपनं च स्थाण्डिल्यं चेति द्वन्द्वः, एषां विधिरागमोक्तः क्रमः परिष्ठापना अतिरिक्ताऽशुद्धभक्तपानोपकरणादीनां विधिना त्यागः, पथगमनादिविधिना सह परिष्ठापना पथगमनवसत्याहारस्वप्नस्थाण्डिल्यविधिपरिष्ठापना तां नाचरति जाननपि निर्द्धर्मतयाऽथवा नैव जानाति न जानात्येव आर्यावर्त्तनं चैव यथायिका वर्तयितव्याः संवाहनीयाः तज्जानन्नपि नाचरति न जानात्येव वेति ।।३७९।।