________________
२००
गुरुतत्त्वसिद्धिः
वाऽतिबहुकं प्रमाणातिरिक्तं भुङ्क्ते इति सम्बन्धः, 'इंगाल' त्ति सशब्दलोपात् साङ्गारं रागेणेत्यर्थः । सधूमकं द्वेषेणेति यावत् 'अणट्ठाए' त्ति अनर्थं वेदनादिकारणरहितं भुङ्क्ते रूपबलाई सौन्दर्यपुष्ट्योर्निमित्तं, न धारयति च पादपुञ्छनकं रजोहरणमिति ।।३६९।।
अट्ठमछट्ठचउत्थं, संवच्छरचाउमासपक्खेसु । न करेइ, सायबहुलो, न य विहरइ मासकप्पेणं ॥३७०।।
'अट्ठम०' गाहा, अष्टमं च षष्ठं च चतुर्थं चेति द्वन्द्वैकवद्भावस्तद्यथाक्रम संवत्सरश्च चातुर्मासकश्च पक्षश्चेति द्वन्द्वस्तेष्विह तु बहुवचननिर्देशः प्रतिसंवच्छरादिकरणज्ञापनार्थः, न करोति सातबहुलः सुखशीलतया, न च विहरति मासकल्पेन तत्काले सत्यपीति ।।३७०।।
नीयं गिण्हइ पिंडं, एगागी अच्छए गिहत्थकहो । पावसुयाणि अहिज्जइ, अहिगारो लोगगहणम्मि ।।३७१।।
'नीयं' गाहा, नित्यं प्रतिदिनमेकगृहाद् गृह्णाति पिण्डम्, एकाकी केवल आस्ते, गृहस्थानां सत्का कथा यस्य स गृहस्थकथः, पापश्रुतानि दिव्यादीन्यधीते पठत्यधिकारस्तस्य लोकग्रहणे जनचित्तरञ्जने न स्वानुष्ठान इति ।।३७१।।
परिभवइ उग्गकारी, सुद्धं मग्गं निगूहए बालो । विहरइ सायागरुओ, संजमविगलेसु खित्तेसु ॥३७२।।
'परि०' गाहा, परिभवति न्यक्करोत्युग्रकारिण उद्यतविहारिणः सुसाधून शुद्धमकलङ्क मार्ग ज्ञानादिकं निगूहयति प्रच्छादयति बालोऽज्ञो विहरति सातगुरुकः सुखतत्परः संयमविकलेषु सुसाधुभिरवासितेषु संसक्त्यादिदोषयुक्तेषु वा क्षेत्रेष्विति ।।३७२।।
उग्गाइ गाइ हसइ य, असंवुडो सइ करेइ कंदप्पं । गिहिकज्जचिंतगो वि य, ओसन्ने देइ गिण्हइ वा ।।३७३।।
'उग्गाइ' गाहा, उद्गायति महाध्वनिना, गायति मनाक्, हसति चासंवृतो विवृतवदन इत्यर्थः, सदा करोति कन्दर्प, तदुद्दीपकैर्वचनादिभिः परानपि हासयतीत्यर्थः । गृहिकार्यचिन्तको गृहस्थप्रयोजनशीलकः, अपि चेत्यभ्युच्चये अवसन्नाय सप्तमी चतुर्थ्यर्थे ददाति वस्त्रादिकं, गृह्णाति वा तत इति ।।३७३।।
धम्मकहाओ अहिज्जइ, घराघरि भमइ परिकहंतो य । गणणाइपमाणेण य, अइरित्तं वहइ उवगरणं ।।३७४।।
'धम्म०' गाहा, धर्मकथा आजीविकार्थमधीतेऽत एव 'घराघरिं' ति गृहे गृहे भ्रमति परिकथयंश्च ता इति गणनया -
'जिणा बारसरूवाइं, थेरा चोद्दसरूविणो । अज्जाणं पन्नवीसं, तु अओ उड्डे उवग्गहो ।।'
इत्यनया प्रमाणेन च-'कप्पा आयपमाणा अड्डाइज्जा उ आयया हत्था' इत्यादिना अतिरिक्तमुक्तात् समर्गलं वहत्युपकरणमिति ।।३७४।।