________________
परिशिष्ट-१
१९९
___'ठवण' गाहा, स्थापनाकुलानि बृहत्प्रयोजनसाधकानि गुरोर्गृहाणि न स्थापयति, निष्कारणं तेषु प्रविशतीत्यर्थः, पार्श्वस्थैश्च सह सङ्गतिं मैत्री कुरुते नित्यापध्यानरतः सदा दुष्टचित्तो न च प्रेक्षाप्रमार्जनाशीलः प्रमत्तत्वादिति ॥३६३।।
रीयइ य दवदवाए, मूढो परिभवइ तहय रायणिए । परपरिवायं गिण्हइ, निद्वरभासी विगहसीलो ।।३६४॥
'रीयइ' गाहा, रीयते च गच्छति च दवदवाएत्ति द्रुतं द्रुतं मूढः परिभवति तिरस्कुरुते तथा च रत्नाधिकान् ज्ञानादिप्रधानान् परपरिवादं गृह्णाति अन्याऽश्लाघां करोति निष्ठुरभाषी कर्कशवचनो विकथाशीलः, स्त्र्यादिकथातत्पर इति ।।३६४।।
विज्जं मंतं जोगं, तेगिच्छं कुणइ भूइकम्मं च । अक्खरनिमित्तजीवी, आरंभपरिग्गहे रमइ ॥३६५।।
"विज्जं' गाहा, विद्यां देव्यधिष्ठितां, मन्त्रं देवाधिष्ठितं, योगं विशिष्टद्रव्यात्मकं, चिकित्सा रोगप्रतीकारात्मिकां करोत्यसंयतानामिति शेषः, भूतिकर्म चाभिमन्त्रितभूतिपरिवेषादिकं करोति, एषणाग्रहणेन गतमेतदिति चेन, तत्राहारार्थमत्र तूपरोधादिनेति विशेषः, तथाऽक्षरनिमित्ताभ्यां लेखशालादैवज्ञत्वाभ्यां जीवितुं शीलमस्येत्यक्षरनिमित्तजीवी तन्मात्रवृत्तिकोऽत एव पूर्वोक्ताद्विशेषः, आरम्भेण सह परिग्रहः आरम्भपरिग्रहस्तस्मिन् पृथिव्याधुपम यथोक्तोपकरणातिरिक्तग्रहणे च रमते सज्जत इति ।।३६५ ।।
कज्जेण विणा उग्गह-मणुजाणावेइ दिवसओ सुयइ । अज्जियलाभं भुंजइ, इथिनिसिज्जासु अभिरमइ ॥३६६।।
'कज्जेण' गाहा, कार्येण विना निष्प्रयोजनमवग्रहं देवेन्द्रादीनामनुज्ञापयति, दिवसतो दिने स्वपिति शेते, आर्यिकालाभं भुङ्क्ते, स्त्रीनिषद्यासु तदुत्थानानन्तरमभिरमत इति ।।३६६ ।।
उच्चारे पासवणे, खेले सिंघाणए अणाउत्तो । संथारगउवहीणं, पडिक्कमइ वा सपाउरणो ।।३६७।।
'उच्चारे' गाहा, उच्चारे प्रश्रवणे खेले सिंघानके पूर्वोक्तरूपेऽनायुक्तोऽयतनया तदुत्सर्गकारित्वात्, संस्तारकगत उपधीनां चोपरिस्थित इति गम्यते किं ? प्रतिक्रामति प्रतिक्रमणं करोति सप्रावरणो वा साच्छादनो वा, वाशब्दस्य व्यवहितः सम्बन्ध इति ।।३६७।।
न करेइ पहे जयणं, तलियाणं तह करेइ परिभोगं । चरइ अणुबद्धवासे, सपक्खपरक्खओ माणे ॥३६८।।
'न करेइ' गाहा, न करोति पथि मार्गे यतनां प्राशुकोदकान्वेषणादिकां तलिकयोरुपानहोस्तथा करोति परिभोगं शक्तोऽपि तद्विना मार्गे गन्तुमत एव प्रागुक्ताद् विशेषश्चरत्यनुबद्धवर्षे वर्षाकाले स्वपक्षपरपक्षापमाने साधुप्रचुरे भौताद्याकुले वा लाघवहेतौ क्षेत्रे विहरतीत्यर्थः ।।३६८।।
संजोयइ अइबहुयं, इंगाल सधूमगं अणट्ठाए । भुंजइ रूवबलट्ठा, न धरेइ य पायपुंछणयं ।।३६९।। 'संजोयइ' गाहा, संयोजयति लोल्यात् क्षीरशर्करादीनां युक्तिं विधत्ते, मकारोऽलाक्षणिकः, अतिबहवे