SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०३ परिशिष्ट-१ तु प्रवचनहीलनायां कृतायामित्यर्थः । 'उसनोवि'त्ति अवसन्नोऽपि कर्मपारवश्येन शिथिलाचारोऽपि वरं श्रेष्ठः, यदि 'पिहुत्ति पृथुपृथुतरं यथास्यात्तथा प्रवचनस्य शासनस्योद्भावना प्रभावना शोभेति यावत्, तस्यां परमः प्रधानो भवति, व्याख्यानादिना शासनप्रभावकोऽवसत्रोऽपि वरमित्यर्थः ।।३५०।। गुणहीणो गुणरयणायरेसु, जो कुणइ तुल्लमप्पाणं । सुतवस्सिणो य हीलइ, सम्मत्तं पेलवं तस्स ।।३५१।। व्याख्या-'गुणहीणो' इतिगुणेन चारित्रादिना हीन एतादृशो गुणरत्नाकरैर्गुणसमुद्रैः साधुभिः सार्धं यः स्वकीयमात्मानं तुल्यं करोति, वयमपि साधव इति मन्यन्ते, तस्य पुरुषस्य सम्यक्त्वं कोमलमसारमर्थात् स मिथ्यादृष्टिरित्यर्थः ।।३५१।।। ओसन्नस्स गिहिस्स व, जिणपवयणतिब्वभावियमइस्स । कीरइ जं अणवज्जं, दढसम्मत्तस्सऽवत्थासु ।।३५२॥ व्याख्या-'उसनस्से ति अवसनस्य पार्श्वस्थादिकस्य वाऽथवा गृहस्थस्य, कीदृशस्य ? जिनस्तीर्थकरस्तस्य प्रवचने सिद्धान्ते धर्मेण तीव्रभाविता मतिर्यस्य तस्य जिनधर्मरागरक्तस्यैतादृशस्याऽवसन्नस्य श्रावकस्य वा यद्वयावृत्त्यादि क्रियते, तत्सर्वमनवद्यं निष्पापं निर्दूषणमिति यावत्, कीदृशस्य ? दृढसम्यक्त्वस्य निश्चलदर्शनस्य कदा वैयावृत्त्यादि करोति ? अवस्थासु क्षेत्रकालाद्यवस्थासु ।।३५२।। पासत्थोसत्रकुसील, णीयसंसत्तजणमहाछंदं । नाऊण तं सुविहिया, सव्वपयत्तेण वज्जिति ॥३५३॥ व्याख्या-'पासत्थो' इति पार्श्वे ज्ञानदर्शनचारित्राणां समीपे तिष्ठतीति पार्श्वस्थः, अवसन्त्रश्चारित्रविषये शिथिलाचारः कुशीलः नायशब्देन यो न भणनाद् ज्ञानविराधकः, 'संसत्तं जणं' इति संसक्तो, यो यत्र यादृशो मिलति तत्र तत्संगत्या तादृशो भवति स संसक्त इत्युच्यते, यथाछंदः स्वकीयमत्योत्सूत्रप्ररूपकः, एतेषां स्वरूपं ज्ञात्वा सुविहिताः शोभनानुष्ठानाः साधवस्तं पार्श्वस्थादिकं सर्वप्रयत्नेन सर्वशक्त्या वर्जयन्ति तत्सङ्गतिं न कुर्वन्ति चारित्रविनाशकारित्वादित्यर्थः ।।३५३।। अथ पार्श्वस्थादीनां लक्षणानि कथयतिबायालमेसणाओ, न रक्खइ धाइसिज्जपिंडं च । आहारेइ अभिक्खं, विगईओ सन्निहिं खाइ ॥३५४।। व्याख्या- 'बायाल' इति द्विचत्वारिंशत्संख्याका एषणा इति आहारविषया गवेषणास्तान् न रक्षति, न पालयति, आहारदोषान्न निवारयतीत्यर्थः, च पुनर्धात्रीपिण्डं न रक्षति, न निवारयति, 'सिज्ज'त्ति शय्यातरपिण्डं गृह्णाति, अभीक्ष्णं पुनः पुनर्विकृतीर्दुग्धदधिप्रमुखाः कारणं विनाऽऽहारयति 'सन्नीहिं' इति रात्रावथवा रात्रिरक्षितं वस्तु खादति भक्षयतीत्येवंशीलः ॥३५४।। सूरप्पमाणभोई, आहारेई अभिक्खमाहारं । न य मंडलिए भुंजइ, न य भिक्खं हिंडई अलसो ॥३५५।। व्याख्या-'सूर' इति सूर्यप्रमाणं उदयादारभ्याऽस्तं यावद्भुङ्क्ते इत्येवंशीलः, अभीक्ष्णं निरन्तरमाहारमशनाद्याहरति भुङ्क्ते, न च साधुमंडल्यां भोजनं करोति, एकाक्येव भोजनं करोति, न च भिक्षार्थं हिंडति
SR No.022195
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy