________________
२०४
गुरुतत्त्वसिद्धिः भ्रमति, गोचर्यां न गच्छति, अलसः सन् स्तोके एव गृहे बहुतरं गृह्णातीत्यर्थः ।।३५५।।
कीबो न कुणइ लोयं, लज्जइ पडिमाइ जल्लमवणेइ । सोवाहणो य हिंडइ, बंधइ कडिपट्टयमकज्जे ॥३५६।।
व्याख्या-'कीबो' इति क्लीबः कातरत्वेन लोचं केशलुञ्चनं न करोति, 'पडिमा' इति कायोत्सर्ग कुर्वन् लज्जते जल्लं शरीरमलं हस्तेनापनयति, 'सोवहाणो अ' इति पादत्राणसहितो हिंडति, बध्नाति कटिप्रदेशे पट्टकं चोलपट्टकं 'अकज्जे' इति कार्यं विना ।।३५६।।
गाम देसं च कुलं, ममायए पीढफलगपडिबद्धो । घरसरणेसु पसज्जइ, विहरइ य सकिंचणो रिक्को ।।३५७।।
व्याख्या-'गामं' इति ग्रामे देशे अथ च कुले ‘ममाए' इति ममतया विचरति, एतानि मदीयानीति ममत्ववान् पीठफलकेषु प्रतिबद्धः वर्षाकालं विनापि शेषकाले तद्रक्षक इत्यर्थः, 'घरसरणेसु' इति गृहाणां पुनर्नवीनकरणे प्रसज्यति प्रसङ्गं करोति चिन्ताकारको भवतीत्यर्थः, विहरति विहारं करोति ‘सकिंचणो' त्ति सुवर्णादिद्रव्यसहितः सन् अहं रिक्तोऽस्मि, द्रव्यरहितो निर्ग्रन्थोऽस्मीति लोकानामग्रे कथयति ।।३५७।।
नहदंतकेसरोमे जमेइ उच्छोलधोयणो अजओ । वाहेइ य पलियंकं अइरेगपमाणमत्थुरइ ॥३५८।।
व्याख्या-'नह' इति नखा दन्ताः केशा मस्तकसम्बन्धिनः रोमाणि शरीरसम्बन्धीनि च, एतेषां द्वन्द्वः तानि 'जमेइ' इति भूषयति अत्थोलशब्देन बहुपानीयेन धावनं हस्तपादादीनां यस्यैतादृशः 'अजओ'त्ति अयतनया युक्तः, 'वाहेइ यत्ति वाहयति गृहस्थवदुपभुङ्क्ते पल्यङ्क मञ्चकमतिरेकप्रमाणं प्रमाणातिरिक्तं संस्तारकोत्तरपट्टाधिकमास्तरति सुखशय्यां करोतीत्यर्थः ।।३५८।।
सोवइ य सव्वराई, नीसठुमचेयणो न वा झरइ । न पमज्जतो पविसइ, निसीहियावस्सयं न करे ॥३५९॥
व्याख्या-'सोवइ य' इति स्वपिति शयनं करोति सर्वस्यां रात्रौ रात्रिप्रहरचतुष्टयेऽपीत्यर्थः 'निसटुं' निर्भरमचेतनश्चेतनारहितः काष्ठवत् शयनं करोतीत्यर्थः, 'न वा झरइत्ति रात्रौ गुणनादिकं स्वाध्यायं न करोति, रात्रौ रजोहरणादिना भूमिमप्रमार्जयन्नुपाश्रये प्रविशति, नैषेधिकीं सामाचारी प्रवेशसमये, निर्गमनसमये चावश्यिकीं न करोति ।।३५९।।
पायपहे न पमज्जइ, जुगमायाए न सोहए इरियं । पुढविदगअगणिमारुय-वणस्सइतसेसु निरविक्खो ॥३६०।।
व्याख्या-'पायपहे' इति पहेति पथि मार्गे व्रजन्, ग्रामसीम्नि प्रविशन् निस्सरना वा न पादौ चरणौ प्रमार्जयति, "युगमात्रायां" युगप्रमाणायां भूमौ ईर्यां न शोधयति, पृथ्वीशब्देन पृथ्वीकायः, दगशब्देनाप्कायः, अगणिशब्देन तेजस्कायः, मारुतो वायुकायः वनस्पतिकायस्त्रसकायश्च, एतेषु षट्सु जीवनिकायेषु निरपेक्षोऽपेक्षारहितो विराधयन्न शङ्कते इत्यर्थः ।।३६०।।
सव्वं थोवं उवहिं, न पेहए न य करेइ सज्झायं । सद्दकरो झंझकरो, लहुओ गणभेयतत्तिल्लो ॥३६१।।