Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
२०३
परिशिष्ट-१ तु प्रवचनहीलनायां कृतायामित्यर्थः । 'उसनोवि'त्ति अवसन्नोऽपि कर्मपारवश्येन शिथिलाचारोऽपि वरं श्रेष्ठः, यदि 'पिहुत्ति पृथुपृथुतरं यथास्यात्तथा प्रवचनस्य शासनस्योद्भावना प्रभावना शोभेति यावत्, तस्यां परमः प्रधानो भवति, व्याख्यानादिना शासनप्रभावकोऽवसत्रोऽपि वरमित्यर्थः ।।३५०।।
गुणहीणो गुणरयणायरेसु, जो कुणइ तुल्लमप्पाणं । सुतवस्सिणो य हीलइ, सम्मत्तं पेलवं तस्स ।।३५१।।
व्याख्या-'गुणहीणो' इतिगुणेन चारित्रादिना हीन एतादृशो गुणरत्नाकरैर्गुणसमुद्रैः साधुभिः सार्धं यः स्वकीयमात्मानं तुल्यं करोति, वयमपि साधव इति मन्यन्ते, तस्य पुरुषस्य सम्यक्त्वं कोमलमसारमर्थात् स मिथ्यादृष्टिरित्यर्थः ।।३५१।।।
ओसन्नस्स गिहिस्स व, जिणपवयणतिब्वभावियमइस्स । कीरइ जं अणवज्जं, दढसम्मत्तस्सऽवत्थासु ।।३५२॥
व्याख्या-'उसनस्से ति अवसनस्य पार्श्वस्थादिकस्य वाऽथवा गृहस्थस्य, कीदृशस्य ? जिनस्तीर्थकरस्तस्य प्रवचने सिद्धान्ते धर्मेण तीव्रभाविता मतिर्यस्य तस्य जिनधर्मरागरक्तस्यैतादृशस्याऽवसन्नस्य श्रावकस्य वा यद्वयावृत्त्यादि क्रियते, तत्सर्वमनवद्यं निष्पापं निर्दूषणमिति यावत्, कीदृशस्य ? दृढसम्यक्त्वस्य निश्चलदर्शनस्य कदा वैयावृत्त्यादि करोति ? अवस्थासु क्षेत्रकालाद्यवस्थासु ।।३५२।।
पासत्थोसत्रकुसील, णीयसंसत्तजणमहाछंदं । नाऊण तं सुविहिया, सव्वपयत्तेण वज्जिति ॥३५३॥
व्याख्या-'पासत्थो' इति पार्श्वे ज्ञानदर्शनचारित्राणां समीपे तिष्ठतीति पार्श्वस्थः, अवसन्त्रश्चारित्रविषये शिथिलाचारः कुशीलः नायशब्देन यो न भणनाद् ज्ञानविराधकः, 'संसत्तं जणं' इति संसक्तो, यो यत्र यादृशो मिलति तत्र तत्संगत्या तादृशो भवति स संसक्त इत्युच्यते, यथाछंदः स्वकीयमत्योत्सूत्रप्ररूपकः, एतेषां स्वरूपं ज्ञात्वा सुविहिताः शोभनानुष्ठानाः साधवस्तं पार्श्वस्थादिकं सर्वप्रयत्नेन सर्वशक्त्या वर्जयन्ति तत्सङ्गतिं न कुर्वन्ति चारित्रविनाशकारित्वादित्यर्थः ।।३५३।।
अथ पार्श्वस्थादीनां लक्षणानि कथयतिबायालमेसणाओ, न रक्खइ धाइसिज्जपिंडं च । आहारेइ अभिक्खं, विगईओ सन्निहिं खाइ ॥३५४।।
व्याख्या- 'बायाल' इति द्विचत्वारिंशत्संख्याका एषणा इति आहारविषया गवेषणास्तान् न रक्षति, न पालयति, आहारदोषान्न निवारयतीत्यर्थः, च पुनर्धात्रीपिण्डं न रक्षति, न निवारयति, 'सिज्ज'त्ति शय्यातरपिण्डं गृह्णाति, अभीक्ष्णं पुनः पुनर्विकृतीर्दुग्धदधिप्रमुखाः कारणं विनाऽऽहारयति 'सन्नीहिं' इति रात्रावथवा रात्रिरक्षितं वस्तु खादति भक्षयतीत्येवंशीलः ॥३५४।।
सूरप्पमाणभोई, आहारेई अभिक्खमाहारं । न य मंडलिए भुंजइ, न य भिक्खं हिंडई अलसो ॥३५५।।
व्याख्या-'सूर' इति सूर्यप्रमाणं उदयादारभ्याऽस्तं यावद्भुङ्क्ते इत्येवंशीलः, अभीक्ष्णं निरन्तरमाहारमशनाद्याहरति भुङ्क्ते, न च साधुमंडल्यां भोजनं करोति, एकाक्येव भोजनं करोति, न च भिक्षार्थं हिंडति

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260