Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट-१
२०५
व्याख्या-'सव्वं' इति सर्वं स्तोकमप्युपधिं मुखवस्त्रिकामात्रमपि न प्रेक्षते, न प्रतिलेखते, न च करोति स्वाध्यायं वाचनादिकं, रात्रौ शयनानन्तरं गाढं शब्दं करोतीति, झंझशब्देन कलहस्तं करोतीति, लघुको न तु गम्भीरो न गुणयुक्तः, गणस्य संघाटकस्य भेदे भेदकरणे 'तत्तिल्लो'त्ति तत्परः ।।३६१ ।।
खित्ताईयं भुंजइ, कालाईयं तहेव अविदिन्न । गिण्हइ अणुइयसूरे, असणाई अहव उवगरणं ।।३६२।।
व्याख्या-'खित्ताईयं' इति क्रोशद्वयादुपरिक्षेत्रादानीतमाहारं यदाहरेत्तत्क्षेत्रातीतं कालातीतमिति यदानीताहारं प्रहरत्रयानन्तरं भक्षयति, 'अणुइयसूरे' इति अनुद्गते सूर्ये गृह्णाति, सूर्योदयात्प्रथममाहारं गृह्णाति, अशनादिकं चतुर्विधमाहारं, अथवोपकरणं वस्त्रादि, एवंविधः पार्श्वस्थादिः कथ्यते इत्यर्थः ।।३६२।।
ठवणकुले न ठवेई, पासत्थेहिं च संगयं कुणइ । निच्चावज्झाणरओ, न य पेहपमज्जणासीलो ॥३६३।।
व्याख्या-'ठवणा' इति स्थापनाकुलानि वृद्धग्लानादीनामतीव भक्तिकराणि, तानि न स्थापयति न रक्षति, निष्कारणं, तत्राहारार्थं गच्छतीत्यर्थः, च पुनः पार्श्वस्थैर्धष्टाचारैः सार्द्ध संगतं मैत्र्यं करोति, नित्यं निरन्तरमपथ्याने रतस्तत्परः न च प्रेक्ष्य दृष्ट्या विलोक्य वस्तुनो ग्रहणं प्रमार्जना रजोहरणादिकेन प्रमाw वस्तुनो भूमौ स्थापनं, तच्छीलस्तदाचरणस्वभावो नेत्यर्थः ।।३६३।।
रीयइ य दवदवाए, मूढो परिभवइ तहय रायणिए । परपरिवायं गिण्हइ, निट्ठरभासी विगहसीलो ॥३६४।।
व्याख्या-'रीयइ य' इति गच्छति ‘दवदवाए' इति सत्वरं मूर्खः सन् पराभवति 'तहय' इति तथा 'रायणिए'त्ति ज्ञानादिगुणरत्नैरधिका वृद्धास्तान्, तैः सह स्पर्द्धते इत्यर्थः, परेषां परिवादोऽवर्णवादस्तं गृह्णाति निष्ठुरं कठिनं भाषते इत्येवंशीलः, विकथा राजकथाद्यास्तासां शीलः स्वभावो यस्य सः ।।३६४।।
विज्ज मंतं जोगं, तेगिच्छं कुणइ भूइकम्मं च । अक्खरनिमित्तजीवी, आरंभपरिग्गहे रमइ ॥३६५ ।।
व्याख्या-'विज्जं' इति विद्यां देवाधिष्ठितां, मंत्रं देवाधिष्ठितं, योगमदृश्यीकरमादि, 'तेगिच्छं' इति रोगप्रतिक्रिया करोति, च पुनर्भूतिकर्मेति रक्षाद्यभिमंत्र्य गृहस्थेभ्यः समर्पयति, अक्षरशब्देन लेखकानामक्षरविद्याप्रदानं, निमित्तं शुभाशुभयोर्लग्नबलेन प्रकाशनं, तेन जीवतीत्येवंशीलः आरम्भः पृथिव्याधुपमईः, परिग्रहोऽधिकोपकरणरक्षणं, तत्र रमते तत्रासक्त इत्यर्थः ।।३६५ ।।
कज्जेण विणा उग्गह-मणुजाणावेइ दिवसओ सुयइ । अज्जियलाभं भुंजइ, इत्थिनिसिज्जासु अभिरमइ ॥३६६ ।।
व्याख्या-'कज्जेण' इति कार्येण विना निरर्थकमित्यर्थः, अवग्रहं स्थित्यर्थमनुज्ञापयति, गृहस्थानां भूमिकां ज्ञापयित्वा मुञ्चतीत्यर्थः, दिवसे स्वपिति निद्रां करोति आर्यिकाया लाभं साध्वीलब्धमाहारं भुनक्ति, स्त्रीणां निषद्या आसनानि, तत्राभिरमते, स्त्रीणामुत्थानानन्तरं तत्कालमेव तत्र तिष्ठतीत्यर्थः ।।३६६।।

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260