Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 219
________________ १९६ गुरुतत्त्वसिद्धिः - तत्र सकृद् दानं पुनः पुनरनुप्रदानमिति, किं सर्वथैव न कल्पत इति ?, न, अन्यथा राजाभियोगेनेतिराजाभियोगं मुक्त्वा बलाभियोगं मुक्त्वा देवताभियोगं मुक्त्वा गुरुनिग्रहेण - गुरुनिग्रहं मुक्त्वा वृत्तिकान्तारं मुक्त्वा, एतदुक्तं भवति - राजाभियोगादिना दददपि म धर्ममतिक्रामति । (३२ / १) पृ. ८८ पं. २७ ܀܀܀ किम्भूतास्तर्हि लिङ्गावशेषा भवन्तीत्याह दगपाणं पुप्फफलं, अणेसणिज्जं गिहत्थकिच्चाई अजया पडिसेवंती, जइवेसविडंबगा नवरं ।। ३४९ ।। 'दग०' गाहा, 'दगपाणं' ति सचित्तोदकपानं पुष्पाणि च फलानि चेति द्वन्द्वैकवद्भावात् पुष्पफलं सचित्तमेव, अनेषणीयमाधाकर्मादि गृहस्थकृत्यानि गृहकरणादीनि किम् ? अयता मुत्कलपापद्वाराः सन्तः प्रतिसेवन्ते भजन्ते यतिवेषविडम्बकाः नवरं रजोहरणादिसाधुनेपथ्यविगोपकाः केवलं ये ते लिङ्गावशेषा उच्यन्ते यतिगुणरहितत्वादिति ।। ३४९ ।। तेषां चापायानाह - - ( उपदेशमाला हेयोपादेया टीका) ओसनया अबोही य पवयणउब्भावणा य बोहिफलं । ओसन्नो वि वरं पिहु, पवयणउब्भावणापरमो || ३५० ।। 'ओसन्नया' गाहा, इह लोके एतावदवसन्नता अवमग्नता लोकमध्ये परिभूतता भवति, परलोके चाबोधिर्जिनप्रणीतधर्माप्राप्तिर्भवति भगवदाज्ञाविराधकत्वाद्, यतः प्रवचनोद्भावनैव चशब्दस्यावधारणार्थत्वात् बोधिफलं, कारणे कार्योपचारात् सैव बोधिरूपं कार्यमित्यर्थः । सा च संविग्नविहारिभिरेव क्रियते तदनुष्ठानदर्शनेन प्रवचनश्लाघोत्पतेः, तदिदं सर्वावसन्नानधिकृत्योक्तम् । देशावमग्नस्त्वात्मनः कर्मपरतन्त्रतां बुध्यमानः परेभ्यः प्रकाशयन् वादलब्धि- व्याख्यानादिभिः प्रवचनमुद्भावयन् श्लाघ्यश्चासौ, यत आहअवसन्नोऽपि वरं प्रधानः पृथु इति क्रियाविशेषणं, सविशेषः सुसाधुगुणप्रकाशनादिना सविस्तरं यथा भवतीत्यर्थः । तथा प्रवचनोद्भावनापरम आगमोन्नतिप्रधान इति । । ३५० ।। व्यतिरेकमाह गुणहीण गुणरयणायरेसु, जो कुणइ तुल्लमप्पाणं । सुतवसिणो य हीलइ, सम्मत्तं पेलवं तस्स ।। ३५१ ।। 'गुण०' गाहा, गुणहीनश्चरणादिशून्यो गुणरत्नाकरैः सप्तमी तृतीयार्थे, साधुभिर्यदि तुल्यमात्मानं, वयमपि साधव इति लोकमध्ये ख्यापयत्यन्यच्च सुतपस्विनश्च हीलयति मायाविनः खल्वेते लोकप्रतारका इत्यादिना तदाऽसौ मिथ्यादृष्टिरेव यतः सम्यक्त्वं गुणवत्प्रमोदसाध्यं पेलवं निःसारम्, तत् कल्पनया विद्यमानमप्यनेन परमार्थतस्तदभावं काक्वा लक्षयति तस्य सुतपस्विहीलकस्येति ॥ ३५१।। साधुभिः पुनः प्रवचनभक्तिमनुवर्त्तयद्भिर्यद् विधेयं तदाह ओसन्नस्स गिहिस्स व, जिणपवयणतिव्वभावियमइस्स । कीरइ जं अणवज्जं, दढसम्मत्तस्सऽवत्थासु ।। ३५२ ।। -

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260