Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
१९८
गुरुतत्त्वसिद्धिः ममैतदिति मन्यते पीढफलकप्रतिबद्धः ऋतुबद्धेऽपि तत्सेवनासक्त इत्यर्थः गृहसरणेषु भवननीवेषु, गृहस्मरणेषु, वा पूर्वोपभुक्तचिन्तनेषु प्रसज्यते घटते, विहरति च सकिञ्चनो हिरण्यादियुक्तस्तथाऽपि रिक्तो निर्ग्रन्थोऽहमिति प्रकाशयनिति ।।३५७॥
नहदंतकेसरोमे जमेइ उच्छोलधोयणो अजओ । वाहेइ य पलियंकं अइरेगपमाणमत्थुरइ ।।३५८॥
‘णह०' गाहा, नखदन्तकेशरोमाणि यमयति राढया समारचयतीत्यर्थः, उत्सोलनया प्रभूतोदकेनायतनया धावनं हस्तपादादिक्षालनं यस्यासावुत्सोलधावनो अत एवायतो गृहस्थकल्पत्वाद्, वाहयति च परिभुङ्क्ते पल्यङ्कमतिरेकप्रमाणं संस्तारकोत्तरपट्टकादतिरिक्तम् अत्थुरइ त्ति आस्तृणाति संस्तारयतीत्यर्थः ।।३५८।।
सोवइ य सव्वराई, नीसठुमचेयणो न वा झरइ । न पमज्जंतो पविसइ, निसीहियावस्सयं न करे ।।३५९।।
'सोवइ' गाहा, स्वपिति च सर्वरात्रिं 'नीसटुं' ति निःप्रसरमचेतनः काष्ठवत् 'न वा झरइ' त्ति स्वाध्यायं न करोतीत्यर्थः, न प्रमृजन् रजोहरणेन प्रविशति वसतौ तमसीति गम्यते, नैषेधिकीं प्रविशन्नावश्यिकां निर्गच्छन्न करोतीति ।।३५९।।
पायपहे न पमज्जइ, जुगमायाए न सोहए इरियं । पुढविदगअगणिमारुय-वणस्सइतसेसु निरविक्खो ।।३६०।।
‘पाए' गाहा, पादौ पथि मार्गे रजोदिग्धौ विजातीयपृथिवीसंक्रमे न प्रमार्जयति, युगमात्रया दृष्ट्येति गम्यते, न शोधयति ईर्यतेऽस्यामिति ईर्या तं गच्छन् वर्तनीमित्यर्थः पृथिव्युदकाग्निमारुतवनस्पतित्रसेषु एतद्विषये निरपेक्षः, तदुपमर्दनं कुर्वन् निःशङ्क इति ।।३६०॥
सव्वं थोवं उवहिं, न पेहए न य करेइ सज्झायं । सद्दकरो झंझकरो, लहुओ गणभेयतत्तिल्लो ।।३६१।।
'सव्वं' गाहा, अपि शब्दस्य लुप्तनिर्दिष्टत्वात् सर्वस्तोकमप्युपधिं मुखवस्त्रादिकं न प्रेक्षते न च करोति स्वाध्यायमुक्तमेवेदमिति चेन्न, तत्र रात्रावत्र तु दिवापीति विशेषः, यदि वा तत्र गुणनमिह वाचनादिकमिति शब्दकरो रात्रौ सुप्ते जने बृहच्छब्दकरणशीलः झंझा कलहस्तत्करो राटिप्रिय इत्यर्थः । लघुरेव लघुकस्तुच्छत्वाद्गणो गच्छस्तस्य भेदः परस्परं चित्तविश्लेषस्तस्मिन् 'तत्तिल्लो' त्ति तप्तिमान् गणभेदतप्तिमान् गच्छविघटनतत्पर इत्यर्थः ।।३६१।।
खित्ताईयं भुंजइ, कालाईयं तहेव अविदिन्नं । गिण्हइ अणुइयसूरे, असणाई अहव उवगरणं ॥३६२।।
'खेत्ता०' गाहा, क्षेत्रातीतम् अतिक्रान्तद्विगव्यूतं भुङ्क्तेऽशनादीति सम्बन्धः, कालातीतं ग्रहणकालात् पौरुषीत्रयातिवहनेन, तथैवाविदत्तं गृह्णात्यनुदिते सूरेऽशनाद्यथवोपकरणं वस्त्रादि भगवद्भिरननुज्ञातत्वादिति ॥३६२।।
ठवणकुले न ठवेई, पासत्थेहिं च संगयं कुणइ । निच्चावज्झाणरओ, न य पेहपमज्जणासीलो ।।३६३।।

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260