________________
१९०
गुरुतत्त्वसिद्धिः चात्रेदमाशङ्कनीयम्-एकविभक्तिनिर्देशात् समुदिता एवामी पूज्या न वियुताः, ततः पूर्वोक्तव्याहतिः, यतस्तत्रैव निषेधे एकत्रेदमुक्तं-"नाणमंतेसु भत्तीबहुमाणो कायचो ।" "तथा नाणाइमंतेसु भत्ती" इत्यादि । दर्शनज्ञाने तु यद्यपि युक्ते सर्वदैव भवतः, तथापि विशिष्टज्ञानरहितं केवलं दर्शनं भण्यते इत्यादि स्वधियाऽभ्यूह्यं गीतार्थरिति गाथार्थः ।।३३।।
(२५/३) पृ. ७४ पं. १७
(गुरुतत्त्वविनिश्चय उल्लास-१) तथाहिदसणनाणचरित्तं, तवविणयं जत्थ जत्तियं पासे । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं ।।१२२।।
'दंसण'त्ति । दर्शनं च-निःशङ्कितादिगुणोपेतं सम्यक्त्वं ज्ञानं च-आचारादिश्रुतं चारित्रं चमूलोत्तरगुणानुपालनात्मकं दर्शनज्ञानचारित्रम्, द्वन्द्वैकवद्भावः । एवं तपश्च-अनशनादि विनयश्चाभ्युत्थानादिस्तपोविनयम् । एतद्दर्शनादि 'यत्र' पार्श्वस्थादौ पुरुषे 'यावद्' यत्परिमाणं स्वल्पं बहु वा जानीयात् तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव 'भक्त्या' कृतिकर्मादिलक्षणया पूजयेदिति ।।१२२।।
(२६/१) पृ. ८० पं. ४
(श्रावकधर्मविधिप्रकरण) स चायं विधिःगुरुमूले सुयधम्मो, संविग्गो इत्तरं व इयरं वा । वज्जित्तु तओ सम्म, वज्जेइ इमे अईयारे ॥७९।।
'गुरुमूले' गाहा व्याख्या- 'गुरुमूले' आचार्याद्यन्तिके 'श्रुतधर्मा' आकर्णिताऽणुव्रतादिः, 'संविग्नः' मोक्षसुखाभिलाषी, न तु ऋद्धिकामः, 'इत्वरं' चातुर्मास्याऽऽदिकालाऽवधिना 'इतरद्वा' यावत्कथिकमेव 'वर्जयित्वा' प्रत्याख्याय वधमिति प्रकृतम् । 'ततः' तदनन्तरं 'सम्यक्' अध्यवसायविशुद्ध्या 'वर्जयति' परिहरते, विरतिपरिणतौ प्रत्याख्याने सत्येवं प्रवृत्तिरेव नाऽस्य संभवतीत्यर्थः । 'इमान्' वक्ष्यमाणलक्षणान्, कान् ? अतिचरणान्यतीचाराः-प्रत्याख्यानमलिनताहेतवो व्यापारास्तान् । इति गाथार्थः ॥७९।।
(पंचाशकप्रकरण)
(२६/२) पृ. ८० पं. ४
विधिनेत्युक्तमथ तमेव वधवर्जनविधिं तदुत्तरविधिं च दर्शयन्नाहगुरुमूले सुयधम्मो संविग्गो इत्तरं व इयरं वा । वज्जित्तु तओ सम्मं वज्जेइ इमे य अइयारे ।।९।। व्याख्या-गुरुः सम्यग्ज्ञानक्रियायुक्तः सम्यग्धर्मशास्त्रार्थदेशकः, यदाह