________________
परिशिष्ट-१
'धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते ।।१।।' () अथवा'जो जेण सुद्धधम्मे निओजिओ संजएण गिहिणा वा । सो चेव तस्स भण्णति धम्मगुरू धम्मदाणाओ ॥१॥' ()
तस्य गुरोराचार्यादेर्मूलमन्तिकं गुरुमूलं तत्र गुरुमूले । अनेनान्यत्र धर्मश्रवणप्रतिषेधो दर्शितः, विपर्यस्तबोधसंभवात् । श्रुतधर्माकर्णिताणुव्रतादिप्रतिपादनपराप्तप्रवचनः । अनेन चाश्रुतागमस्य ज्ञानाभावेन व्रतप्रतिपत्तिर्न सम्यगिति तत्प्रतिषेधो दर्शितः ।
यदाह-'जस्स नो इमं उवगयं भवइ इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स नो सुपच्चक्खायं भवति, दुपच्चक्खायं भवति, से दुपच्चक्खाइ मोसं भासं भासति, नो सच्चं भासं भासइ त्ति ।' ()
___तथा स्वयमुत्प्रेक्षितशास्त्रस्यापि प्रतिषेध उक्तः, स्वयमुत्प्रेक्षणे हि सम्यक्शास्त्रार्थानवगमेन सम्यक्प्रवृत्यभावात् । यदाह
'न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं पश्यत नृत्यं मयूरस्य ।।१।।' ()
तथा श्रुतधर्मत्वादेव संविग्नो मोक्षसुखाभिलाषी सन् संसारभीतो वा । अन्यथाविधस्य हि व्रतप्रतिप्रत्तिर्न मोक्षाय स्यात् । इत्वरमल्पकालं यावच्चतुर्मासादिकालावधित्वेनेत्यर्थः । वाशब्दो विकल्पे । इतरं वा बहुकालं यावत् यावज्जीवमित्यर्थः । वाशब्दो विकल्पार्थ एव । स्थूलप्राणवधमिति प्रकृतम् । वर्जयित्वा प्रत्याख्याय । अनेन पूर्वगाथासूचितो वधवर्जनविधि-रुक्तः । 'तओत्ति' तकः श्रुतधर्मादिविशेषणः प्राणी । यदि पुनस्तत इति वधवर्जनानन्तरमिति व्याख्यायते, तदा क्त्वाप्रत्ययेनैवानन्तर्यस्याभिधानात्तत इति पुनरुक्तमापद्यते । अथवा लोकभणित्यपेक्षया निळवधानार्थताकल्पनेन तत इत्यपि न दुष्टम् । तथाहि वक्तारो भवन्ति 'भुक्त्वा पीत्वा ततस्ते गता' इति । कथमित्याह-सम्यग्-भावशुद्ध्या वर्जयति परिहरति नासेवते, वधप्रत्याख्यानेनैवातिचाराणां प्रत्याख्यातत्वात् इह वर्जनमनासेवनं व्याख्यातम् । 'इमे त्ति' इमान् वक्ष्यमाणत्वेन प्रत्यक्षासन्नान् । अतीचारानतिक्रमान् वधविरतिमालिन्यानीति यावत् । ननु सर्वविरतावेवातीचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् । यदाह
'सव्वे विय अइयारा संजलणाणं तु उदयओ होति । मूलच्छेज्जं पुण होइ बारसण्हं कसायाणं ।।११२।।' (आवश्यकनियुक्ति०)
संज्वलनोदयश्च सर्वविरतानामेव, देशविरतानां तु प्रत्याख्यानावरणोदय इति न देशविरतावतिचारसंभवः । युज्यते चैतदल्पीयस्त्वात्तस्याः कुन्थुशरीरे व्रणाद्यभाववत् । तथाहि-प्रथमाणुव्रते स्थूलसङ्कल्पनिरपराधद्विविधंत्रिविधेनेत्यादिभिर्विकल्पैर्विशेषितत्वेनातिसूक्ष्मतां गते देशाभावात् कथं देशविराधनारूपा अतिचारा भवन्तु? अतः सर्वनाश एव तस्योपपद्यते, कुन्थुशरीरस्येव । महाव्रतेषु तु ते संभवन्ति, महत्त्वादेव, हस्तिशरीरे व्रणपट्टबन्धादिवत् इति । अत्रोच्यते-देशविरतावतिचारा न भवन्तीत्यसंगतं, उपासकदशादिषु प्रतिव्रतमतिचारपञ्चकाभिधानात् । अथ भङ्गा एव ते, न त्वतिचाराः । नैवम्, भङ्गाद्भेदेनातिचारस्यागमे सम्मतत्वात् । यदाह