________________
१९२
गुरुतत्त्वसिद्धिः
'जारिसओ जइभेओ जह जायइ जह य तत्थ दोसगुणा । जयणा जह अइयारा भङ्गो तह भावणा नेया ।।१।।' (नवपदप्रकरण तथा पञ्चाशक-अवचूर्णि)
न चेयं गाथा न प्रमाणं, पूर्वान्तर्गततयास्याः प्रतिपादनात् । यच्चोक्तम्-'सर्वेऽतिचाराः संज्वलनोदय एवेति' तत्सत्यम्, केवलं सर्वविरितिचारित्रमेवाश्रित्य तदुच्यते, न तु देशविरति-सम्यक्त्वे, यतः 'सव्वेऽविय अइयारे' इत्यादिगाथाया एवं व्याख्या-संज्वलनानामेवोदये सर्वविरतावतिचारा भवन्ति, शेषोदये तु मूलच्छेद्यमेव तस्यामिति, एवं च न देशविरतावतिचाराभावः, यद्यप्यधिकृतगाथा पश्चार्थस्य व्याख्या प्रकारान्तरेणोच्यते, यथा-मूलच्छेदः सर्वविरतेस्तृतीयानामुदये, देशविरतेर्द्वितीयानां, सम्यक्त्वस्य प्रथमानामिति, तेनापि देशविरत्यादौ नातिचाराभावः, तथाहि-यथा संज्वलनोदये सर्वविरतिरवाप्यते, तत्रातिचाराश्च भवन्ति, एवं प्रत्याख्यानावरणोदये देशविरतिस्तदतिचाराश्च, अप्रत्याख्यानावरणोदये सम्यक्त्वं तदतिचाराश्च भवन्तु, न्यायस्य समानत्वात्, विचित्रो ह्युदयः कषायाणां, ततोऽसौ गुण-लाभस्याविबन्धकस्तदतिचारणां च निमित्तं भवति, संज्वलनोदयवदिति, अन्ये पुनराहुः-सम्यक्त्वदेशविरत्यतिचाराः क्रमेण प्रथमद्वितीयकषायोदयाद्भवन्ति, विचित्रो हि तदुदयो देशतः सर्वतश्च विराधनाया हेतुर्भवतीति, यश्च कुन्थुदृष्टान्तोऽसावसङ्गत एव, दृष्टान्तान्तरबाधितत्वात्तस्य, तथाहि-हस्तिनोऽतिलघुर्मनुष्यस्तस्य च व्रणादिः संभवत्येवेति, यच्चोच्यतेअनन्तानुबन्ध्यादिकषायद्वादशकस्य सर्वघातित्वेनाभिधानात्तदुदये सम्यक्त्वादीनां भङ्ग एवेति, तदयुक्तम्, सर्वविरत्यपेक्षयैव सर्वघातित्वेन तस्य व्याख्यातत्वात्, तदेवं देशविरतावतिचारसम्भवोऽस्तीति गाथार्थः ।।९।।
(२७) पृ. ८० पं. ७
(श्रावकधर्मविधिप्रकरण) एवं सम्यक्त्वप्रतिपत्तिप्रसङ्गप्राप्तां मिथ्यात्वनिवृत्ति त्रिविधं त्रिविधेनाभिधाय निगमयतिइय मिच्छाओ विरमिय, सम्म उवगम्म भणइ गुरुपुरओ । अरहंतो निस्संगो, मम देवो दक्खिणा साहू ॥४४॥
'इय मिच्छाओ' गाहा व्याख्या-'इति' उदितनीत्या त्रिविधं त्रिविधेन 'मिथ्यात्वात्' उक्तस्वरूपात् 'विरम्य' विरत्यङ्गीकारं कृत्वा 'सम्यग्' आगमाभिहितेन जिनप्रतिमापूजादिविधिना 'उपगम्य' सामीप्येन गत्वा भणति' प्रतिजानीते 'गुरुपुरतः' दीक्षादायकाचार्यादेरग्रतः । यद्भणति तदाह- 'अर्हन्' इत्यष्टमहाप्रातिहार्यरूपां सुरकृतां सपर्यामर्हतीत्यर्हन्, 'न्तमाणौ शतृशानचोः' इति शत्रन्तादेशः । किंविधोऽसौ ? इत्याह-'निस्सङ्गः' निर्गतो बाह्याभ्यन्तरो रागकषायादिरूपः सङ्गोऽस्मादिति निस्सङ्गः, प्रतिकृतिः प्रवचनादिप्रतीयमानाऽशेषरागादिकालुष्यदोषविरहः, तदुच्यते
'इह हि रमणीशस्त्राक्षालीधराः सुरमूर्तयो, निपुणसुगमान् रागद्वेषभ्रमान् शमयन्त्यलम् । तव पुनरियं त्यक्ताऽऽसङ्गा तनुः कृतकृत्यतां, प्रसभमुशति स्वामिन्! सत्यं प्रवक्ति तदत्ययम्।।१।। य इह गदिताः स्वात्मरामा गवादिकमाश्रिताः, अपि जिन ! जडैस्तेषां तत्त्वं कथं किल तत्त्वतः ?