________________
परिशिष्ट-१
१९३
तव तु निखिलं बाह्यान्तःस्थं परिग्रहमुज्झतो, मुनिवर! भवेद् युक्त्या युक्तं तदेतदबाधितम्।।२॥' () इत्यादि ।
'मम' इत्यात्मनिर्देशे 'देवः' मोक्षायाराधनीया देवतेत्यर्थः। 'दक्षिणाः' दक्षिणार्हाः पूज्या गुरव इत्यर्थः, 'साधवः' यतयः। इति गाथार्थः।।४४।।
(२८) पृ. ८० पं. १२
(उपदेशमाला हेयोपादेया टीका) किमर्थमियान् गुणगणो गुरोर्मुग्यत इत्याहकइयावि जिणवरिंदा, पत्ता अयरामरं पहं दाउं । आयरिएहिं पवयणं, धारिज्जइ संपयं सयलं ।।१२।।
कदापि कस्मिन्नपि काले जिनवरेन्द्राः पथं ज्ञानाद्यात्मकं मार्ग दत्वा भव्येभ्यः, अजरामरं जरामरणरहितं मोक्ष प्राप्ता भवन्ति, ततश्च तत्काले तदनुभावादेव प्रवचनं मर्यादावर्ति वर्तेत । तद्विरहे पुनराचार्यैः प्रवचनं तीर्थं चातुर्वर्णसङ्घरूपमागमरूपं च सांप्रतं युक्तमनुच्छंखलं मर्यादार्वत्यविस्मृतं च सकलं सविज्ञानं संपूर्ण च धार्यते ध्रियते, अविच्युत्या स्मर्यते च, न च गुणविकलैरिदं कर्तुं शक्यम, अतस्तदन्वेषणं युक्तमिति ।।१२।।
(२९) पृ. ८१ पं. १९
(दर्शनशुद्धिप्रकरण) एतदेव समर्थयन्तिन विणा तित्थं नियंठेहिं नातित्था य नियंठया । छक्कायसंजमो जाव ताव अणुसज्जणा दुण्हं ।।१७३।।
न विना निर्ग्रन्थैः सामान्येन चारित्रिभिस्तीर्थम् । न चातीर्था निर्ग्रन्थाः-तीर्थं विना तेऽपि न भवन्तीत्यर्थः । पुलाकबकुशप्रतिसेवनाकुशीलानामेव चायं नियमः ।
तथा च प्रज्ञप्तिः- पुलाए णं भंते ! किं तित्थे हुज्जा अतित्थे हुज्जा ? गोयमा ! तित्थे हुज्जा, नो अतित्थे हुज्जा । एवं बउसेवि पडिसेवणाकुसीलेवि । कसायकुसीले पुच्छा, गोअमा ! तित्थे वा हुज्जा अतित्थे वा हुज्जा । जइ अतित्थे हुज्जा, तित्थयरे हुज्जा, पत्तेयबुद्धे हुज्जा ? गोअमा ! तित्थयरे वा हुज्जा, पत्तेयबुद्धे वा हुज्जा एवं नियंठेवि । एवं सिणाएवि ।
तस्मात् षट्कायसंयमो यावत्, तावदनुषञ्जना अनुवृत्तिर्द्वयोः बकुशप्रतिसेवनाकुशीलतयोरेवेत्यर्थः।।१७३।।
एषैव सर्वतीर्थेषु व्यवस्थेत्याहुःसव्वजिणाणं निच्चं बकुसकुसीलेहिं वट्टए तित्थं । नवरं कसायकुसीला अपमत्तजई वि सत्तेण ॥१७५।। सर्वजिनानां भरतैरवतविदेहतीर्थकृताम् । नित्यं बकुशकुशीलाभ्यां वर्त्तते तीर्थम् । पुलाकादीनामल्पत्वात्