Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 198
________________ परिशिष्ट-१ १७५ स्थविर इति व्युत्पत्तेस्तथा चाह - 'थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु । जे जत्थ सीयइ जई संतबलो तं पचोएइ ।।१।।' व्याख्या-प्रवर्त्तिव्यापारितेष्वर्थेषु यो यत्र यतिः सीदति, सद्विद्यमानं बलं यस्य स सद्बलस्तथाभूतः सन् यस्तं प्रचोदयति-प्रकर्षेण शिक्षयति स स्थिरकरणात् स्थविर इति । उक्तं स्थविरस्य स्वरूपम् । अधुना गीतार्थस्वरूपमाह - 'उद्धावणा-पहावण-खित्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गीयत्था एरिसा हुंति ।।१।।' व्याख्या-उत्-प्राबल्येन धावनमुद्धावनं प्राकृतत्वाच्च स्त्रीत्वनिर्देशः । किमुक्तं भवति- तथाविधे गच्छप्रयोजने समुत्पन्ने आचार्येण सन्दिष्टोऽसन्दिष्टो वा आचार्यान् विज्ञप्य यथैतत्कार्यमहं करिष्यामीति तस्य कार्यस्यात्मानुग्रहबुद्ध्या करणमुद्धावनं, शीघ्रं तस्य कार्यस्य निष्पादनं प्रधावनं, क्षेत्रमार्गणाक्षेत्रप्रत्युपेक्षणा उपधेरुत्पादनम् एतासु येऽविषादिनो- विषादं न गच्छन्ति । तथा सूत्रार्थतदुभयविदः, अन्यथा हेयोपादेयपरिज्ञानायोगात् ते एतादृशा-एवंविधा गीतार्था-गणावच्छेदिन इत्यर्थः । इत्यलं प्रसङ्गेनेति गाथार्थः ।।१२।। (२०) पृ. ५४ पं. ३ (द्रव्यसप्ततिका) अथ, आलोचनाऽऽचार्यम् उत्सर्गाऽपवादाभ्यामाऽऽहआयरियाऽई सगच्छे, संभोइअ इअर गीयपासत्थे । सारूवी पच्छाकड, देवय पडिमा अरिह सिद्धो ।।५।। "आयरिया०" ति, व्याख्या- साधुना श्राद्धेन वा नियमतः प्रथमम् स्वगच्छे आचार्यस्य, तदयोगे उपाध्यायस्य, एवम् प्रवर्तिनः, स्थविरस्य गणावच्छेदिनो वा पुरतः आलोचनीयम् । एवम् तदभावे साम्भोगिके एकसामाचारिके गच्छान्तरे आचार्यादिक्रमेण आलोच्यम् । तेषामभावे इतरस्मिन् असाम्भोगिके संविग्नगच्छे, स एव क्रमः । तेषामऽप्यभावे गीतार्थ-पार्श्वस्थस्य पुरः । तदभावे गीतार्थसारूपिकस्य पुरतः । तदभावे गीतार्थपश्चात्कृतस्य पुर आलोच्यम् । अत्र सारूपिक:-शुक्लाम्बरः, मुण्डः, अबद्धकच्छः, रजोहरणरहितः, अब्रह्मचर्यः, अभार्यः, भिक्षाग्राही । सिद्धपुत्रस्तु-सशिखः, सभार्यः । पश्चात्कृतस्तु त्यक्तचारित्रवेषो गृहस्थः । ततः, पार्श्वस्थादेरपि गुरुवद् वन्दनादिविधिः कार्यः, विनयमूलत्वाद् धर्मस्य । यदि तु पार्श्वस्थादिः स्वम् हीनपुण्यं पश्यन् न वन्दनम् कारयति, तदा तस्य निषद्यामारचय्य, प्रणाममात्रं कृत्वा, आलोच्यम् । पश्चात्कृतस्य च इत्वरसामायिकारोपणम्, लिङ्गप्रदानं च कृत्वा, यथाविधि आलोच्यम् । पार्श्वस्थादीनामप्यभावे यत्र राजगृहादिसत्कगुणशीलादौ स्थाने अर्हद्-गणधराद्यैः बहुशो दत्तं प्रायश्चित्तम् यया देवतया दृष्टम्, तत्र तस्याः सम्यग्दृष्टेः अष्टमाद्याराधनेन प्रत्यक्षायाः पुरः आलोच्यम् । जातु सा च्युता, अन्या उत्पन्ना, तदा महाविदेहादौ अर्हन्तं पृष्ट्वा प्रायश्चित्तं दत्ते । तदयोगे अर्हत्प्रतिमानाम् पुर आलोच्यम्, स्वयम् प्रायश्चित्तं प्रतिपद्यते । तासामयोगे पूर्वोत्तराऽभिमुखः, अर्हत्सिद्धसमक्षमपि आलोच-येत् । व्यवहारेऽपि एतदर्थसंवादी पाठः स्पष्ट एव । तद्यथा- "जत्थेव सम्मभाविआई चेइयाइं पासेज्जा, कप्पड़ से तस्संतिए

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260