________________
परिशिष्ट-१
१७५
स्थविर इति व्युत्पत्तेस्तथा चाह -
'थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु । जे जत्थ सीयइ जई संतबलो तं पचोएइ ।।१।।'
व्याख्या-प्रवर्त्तिव्यापारितेष्वर्थेषु यो यत्र यतिः सीदति, सद्विद्यमानं बलं यस्य स सद्बलस्तथाभूतः सन् यस्तं प्रचोदयति-प्रकर्षेण शिक्षयति स स्थिरकरणात् स्थविर इति ।
उक्तं स्थविरस्य स्वरूपम् । अधुना गीतार्थस्वरूपमाह - 'उद्धावणा-पहावण-खित्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गीयत्था एरिसा हुंति ।।१।।'
व्याख्या-उत्-प्राबल्येन धावनमुद्धावनं प्राकृतत्वाच्च स्त्रीत्वनिर्देशः । किमुक्तं भवति- तथाविधे गच्छप्रयोजने समुत्पन्ने आचार्येण सन्दिष्टोऽसन्दिष्टो वा आचार्यान् विज्ञप्य यथैतत्कार्यमहं करिष्यामीति तस्य कार्यस्यात्मानुग्रहबुद्ध्या करणमुद्धावनं, शीघ्रं तस्य कार्यस्य निष्पादनं प्रधावनं, क्षेत्रमार्गणाक्षेत्रप्रत्युपेक्षणा उपधेरुत्पादनम् एतासु येऽविषादिनो- विषादं न गच्छन्ति । तथा सूत्रार्थतदुभयविदः, अन्यथा हेयोपादेयपरिज्ञानायोगात् ते एतादृशा-एवंविधा गीतार्था-गणावच्छेदिन इत्यर्थः । इत्यलं प्रसङ्गेनेति गाथार्थः ।।१२।।
(२०) पृ. ५४ पं. ३
(द्रव्यसप्ततिका) अथ, आलोचनाऽऽचार्यम् उत्सर्गाऽपवादाभ्यामाऽऽहआयरियाऽई सगच्छे, संभोइअ इअर गीयपासत्थे । सारूवी पच्छाकड, देवय पडिमा अरिह सिद्धो ।।५।।
"आयरिया०" ति, व्याख्या- साधुना श्राद्धेन वा नियमतः प्रथमम् स्वगच्छे आचार्यस्य, तदयोगे उपाध्यायस्य, एवम् प्रवर्तिनः, स्थविरस्य गणावच्छेदिनो वा पुरतः आलोचनीयम् । एवम् तदभावे साम्भोगिके एकसामाचारिके गच्छान्तरे आचार्यादिक्रमेण आलोच्यम् । तेषामभावे इतरस्मिन् असाम्भोगिके संविग्नगच्छे, स एव क्रमः । तेषामऽप्यभावे गीतार्थ-पार्श्वस्थस्य पुरः । तदभावे गीतार्थसारूपिकस्य पुरतः । तदभावे गीतार्थपश्चात्कृतस्य पुर आलोच्यम् । अत्र सारूपिक:-शुक्लाम्बरः, मुण्डः, अबद्धकच्छः, रजोहरणरहितः, अब्रह्मचर्यः, अभार्यः, भिक्षाग्राही । सिद्धपुत्रस्तु-सशिखः, सभार्यः । पश्चात्कृतस्तु त्यक्तचारित्रवेषो गृहस्थः । ततः, पार्श्वस्थादेरपि गुरुवद् वन्दनादिविधिः कार्यः, विनयमूलत्वाद् धर्मस्य । यदि तु पार्श्वस्थादिः स्वम् हीनपुण्यं पश्यन् न वन्दनम् कारयति, तदा तस्य निषद्यामारचय्य, प्रणाममात्रं कृत्वा, आलोच्यम् । पश्चात्कृतस्य च इत्वरसामायिकारोपणम्, लिङ्गप्रदानं च कृत्वा, यथाविधि आलोच्यम् । पार्श्वस्थादीनामप्यभावे यत्र राजगृहादिसत्कगुणशीलादौ स्थाने अर्हद्-गणधराद्यैः बहुशो दत्तं प्रायश्चित्तम् यया देवतया दृष्टम्, तत्र तस्याः सम्यग्दृष्टेः अष्टमाद्याराधनेन प्रत्यक्षायाः पुरः आलोच्यम् । जातु सा च्युता, अन्या उत्पन्ना, तदा महाविदेहादौ अर्हन्तं पृष्ट्वा प्रायश्चित्तं दत्ते । तदयोगे अर्हत्प्रतिमानाम् पुर आलोच्यम्, स्वयम् प्रायश्चित्तं प्रतिपद्यते । तासामयोगे पूर्वोत्तराऽभिमुखः, अर्हत्सिद्धसमक्षमपि आलोच-येत् । व्यवहारेऽपि एतदर्थसंवादी पाठः स्पष्ट एव । तद्यथा- "जत्थेव सम्मभाविआई चेइयाइं पासेज्जा, कप्पड़ से तस्संतिए