________________
HOM
१७४
गुरुतत्त्वसिद्धिः 'सुत्तत्थतदुभयविऊ उज्जुत्ता नाणदंसणचरित्ते । निष्फायग सीसाणं एरिसया हुंति उज्झाया ।।१।।'
व्याख्या-ये सूत्रार्थतदुभयविदो ज्ञानदर्शनचारित्रेषूद्युक्ता-उपयुक्तास्तथा शिष्याणां सूत्रवाचनादिना निष्पादका एतादृशा भवन्त्युपाध्यायाः । उक्तं च -
'सम्मत्तनाणसंजम-जुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजुग्गो सुत्तं वाएइ उवज्झाओ ॥१॥' अथ कस्मात् सूत्रमुपाध्यायो वाचयति ? उच्यते-अनेकगुणसम्भवात् । तानेवाह - 'सुत्तत्थेसु थिरत्तं रिणमुक्खो आयई अपडिबंधो ।। पाडिच्छा मोहजओ सुत्तं वाएइ उज्झओ ।।१।।'
व्याख्या-उपाध्यायः शिष्येभ्यः सूत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभावयति सूत्रेऽर्थे च तस्य स्थिरत्वमुपजायते । तथा अन्येभ्यः सूत्रवाचनाप्रदानेन सूत्रलक्षणस्य ऋणस्य मोक्षः कृतो भवति । तथा आयत्यामागामिनि काले आचार्यपदाध्यासेऽप्रतिबन्योऽत्यन्ताभ्यस्ततया यथावस्थतया स्वरूपस्य सूत्रस्यानुवर्त्तनं भवति । तथा 'पडिच्छे 'त्ति । येऽन्यतो गच्छान्तरादागत्य साधवस्तत्रोपसम्पदं गृह्णते ते प्रतीच्छका उच्यन्ते । ते च सूत्रवाचनाप्रदानेनानुगृहीता भवन्तीति वाक्यशेषः । तथा मोहजयः कृतो भवति, सूत्रवाचनादानव्यग्रस्य सतः प्रायश्चित्तविस्रोतसिकाया अभावात् । यत एवं गुणास्तस्मादुपाध्यायः सूत्रं वाचयेत् ।।
उक्तमुपाध्यायस्वरूपमधुना प्रवर्तिनः स्वरूपमाह - 'तवनियमविणयगुणनिहि-पवत्तया नाणदंसणचरिते । संगहुवग्गहकुसला पवत्ति एआरिसा हुंति ॥१॥'
व्याख्या-तपो-द्वादशप्रभेदम्, नियमा-विचित्रा द्रव्याद्यभिग्रहाः विनयो-ज्ञानादिविनयः । ततश्च तपोनियमविनयानां गुणानां निधय इव तपोनियमविनयगुणनिधयस्तेषां प्रवर्तकाः । तथा ज्ञानदर्शनचारित्रेषूद्युक्ताः-सततोपयोगवन्त इतिवाक्यशेषः । तथा सङ्ग्रहः-शिष्याणां सङ्ग्रहणम् । उपग्रहः- तेषामेव ज्ञानादिषु सीदतामुपष्टम्भकरणं तयोः सङ्ग्रहोपग्रहयोः कुशलाः एतादृशा-एवंरूपाः प्रवर्तिनो भवन्ति । यथोचितं प्रशस्तयोगेषु सीदतः साधून प्रवर्तयन्तीत्येवंशीलाः प्रवर्तिन इति व्युत्पत्तेः । तथा चाह -
'संजमतवनियमेसु जो जुग्गो तत्थ तं पवत्तेइ । असहू अ नियत्तेती गणतत्तील्लो पवत्तिओ ।।१।।'
व्याख्या-तपःसंयमयोगेषु मध्ये यो यत्र योग्यस्तं तत्र प्रवर्त्तयन्ति । असहाँश्चासमर्थांश्च निवर्तयन्ति । एवं गणतप्तिप्रवृत्ताः प्रवर्तिनः ।।१।।
उक्तं प्रवर्तिस्वरूपम् । सम्प्रति स्थविरस्वरूपमाह - 'संविग्गो मद्दविओ पियधम्मो नाणदंसणचरित्ते । जे अटे परिहायइ सारितो तो हवइ थेरो ॥१॥'
व्याख्या-यः संविग्नो-मोक्षाभिलाषी, माईवितः-संजातमार्दवः, प्रियधर्मा-एकान्तवल्लभसंयमानुष्ठानो यो ज्ञानदर्शनचारित्रेषु मध्ये यान् अर्थान् उपादेयान् अनुष्ठानविशेषान् परिहापयति-हानि नयति तं तान् संस्मारयन् भवति स्थविरः । सीदमानान् साधून ऐहिकामुष्मिकापायप्रदर्शनतो मोक्षमार्गे स्थिरीकरोतीति