________________
परिशिष्ट-१
१७३
पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति । सा च प्रयच्छति यथार्ह प्रायश्चित्तम् । अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दृष्टस्तीर्थकरस्ततः साऽष्टमेनाऽऽकम्पिता ब्रूते महाविदेहे तीर्थकरमापृच्छय समागच्छामि । ततः सा तेनानुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति पृष्ट्वा च समागत्य साध्वादिभ्यः प्रायश्चित्तं कथयति । तासामपि देवतानामभावे अर्हत्प्रतिमानां पुरतः स्वप्रायश्चित्तदानपरिज्ञानकुशल आलोचयति । ततश्च स्वयमेव प्रतिपद्यते प्रायश्चित्तम् । तासामप्यभावे प्राचीनादिदिगभिमुखोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तदानविधिविद्वानालोचयति । आलोच्य च स्वयमेव प्रायश्चित्तं प्रतिपद्यते । स च तथाप्रतिपद्यमानः शुद्ध एव, सूत्रोक्तविधिना प्रवृत्तेः । यदपि च विराधतिं तत्रापि शुद्धः प्रायश्चित्तप्रतिपत्तेरिति ।।
अथ पञ्चानामाचार्यादीनां प्रागुक्तानां किञ्चित्स्वरूपं व्यवहारभाष्यगाथाभिरेव स्पष्टीक्रियते । तत्र प्रथममाचार्यस्वरूपमाह -
सुत्तत्थतदुभएहि उवउत्ता नाणदंसणचरित्ते । गणतत्तिविप्पमुक्का एरिसया हुँति आयरिया ।।१।।
व्याख्या-ये सूत्रार्थतदुभयैरुपेता इति गम्यते । तथा ज्ञानं च दर्शनं च चारित्रं चेति समाहारो द्वन्द्वस्तेषु सततमुपयुक्ताः-कृतोपयोगाः । तथा गणस्य-गच्छस्य या तप्तिः-सारा तया विप्रमुक्ता गणावच्छेदप्रभृतीनां तत्तप्तेः समर्पितत्वात्, उपलक्षणमेतत् शुभलक्षणोपेताश्च । ये एतादृशा-एवंविधगुणोपेता भवन्ति ते आचार्याः । ते चार्थमेव केवलं भाषन्ते, न तु सूत्रमपि वाचयन्ति । तथा चोक्तम् -
'सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविष्पमुक्को अत्थं भासेइ आयरिओ ।।१।।' अथ किं कारणमाचार्याः स्वयं सूत्रं न वाचयन्ति ? तत आह - 'एगग्गया य झाणे वुड्डी तित्थयर अणुगिई गुरुआ । आणाथिज्जमिइ गुरू कयरिणमुक्खो न वाएइ ।।१।।'
व्याख्या-सूत्रवाचनप्रदानपरिहारेणार्थमेव केवलं व्याख्यानयत आचार्यस्यैकाग्रता-एकाग्रमनस्कता ध्याने-अर्थचिन्तनात्मके भवति । यदि पुनः सूत्रमपि वाचयेत् तदा बहुव्यग्रत्वादर्थचिन्तायामेकाग्रता न स्यात् । एकाग्रतयाऽपि को गुण ? इत्यत आह-'वृद्धिः' एकाग्रस्य हि सतोऽर्थचिन्तयतः सूत्रार्थस्य तत्र सूक्ष्मार्थोन्मीलनाद् वृद्धिरुपजायते । तथा तीर्थकरानुकृतिरेवं कृता भवति । तथाहि-तीर्थकृतो भगवन्तः किलार्थमेव केवलं भाषन्ते, न तु सूत्रं नापि गणतप्तिं कुर्वन्ति । एवमाचार्या अपि तथावर्त्तमानास्तीर्थकरानुकारिणो भवन्ति । सूत्रवाचनां तु प्रयच्छतामाचार्याणां लाघवमप्युपजायते । तद्वाचनायास्ततोऽधस्तनपदवृत्तिभिः क्रियमाणत्वाद् । एवं च तस्य तथावर्त्तमानस्य लोके राज्ञ इव महती गुरुता प्रादुर्भवति । तद्गुरुतायां च प्रवचनप्रभावना । तथा आज्ञायां स्थैर्यमाज्ञास्थैर्यं कृतं भवति । तीर्थकृतामेवमाशा पालिता भवतीत्यर्थः । इयं हि तीर्थकृतामाज्ञा यथोक्तप्रकारेण ममानु-कारिणा आचार्येण भवितव्यमिति । इत्यस्माद्धेतुकलापाद् गुरुराचार्यः कृतः ऋणमोक्षो येन स कृतऋणमोक्षः, तेन हि सामान्यावस्थायामनेके साधवः सूत्रमध्यापितास्तत ऋणमोक्षस्य कृतत्वात् सूत्रं न वाचयति ।
उक्तमाचार्यस्वरूपमिदानीमुपाध्यायस्वरूपमाह