________________
गुरुतत्त्वसिद्धिः
तुशब्दस्यावधारणार्थत्वात् सुपथात् ज्ञानादेर्मोक्षमार्गात् द्विविधपथविप्रमुक्तः साधु श्रावकानुष्ठेयमार्गभ्रष्ट इति हृदयं, तथाहि – नाऽसौ यतिः क्लिष्टपरिणामत्वात् न गृहस्थोऽपि लिङ्गदर्शनादतः कथमात्मानं न मूढो येन सुसाधून् वन्दापयतीति ।। २२९ ।।
१७२
(१९) पृ. ५४ पं. ३
(श्राद्धजितकल्पसूत्र )
अथ सुगुरूणामप्राप्ती पूर्वगाथास्थतुशब्दसंसूचितेन येन क्रमेण येषामन्तिके आलोचना प्रदीयते तं
क्रमं स्पष्टयन्नाह
-
आयरियाइ सगच्छे संभोइय- इअरगी अपात्थे ।
सारूवी - पच्छाकड- देवयपडिमा - अरिह- सिद्धे ।। १२ ।।
व्याख्या - स्वगच्छे आचार्यादौ - आचार्यसमीपे आदिशब्दादुपाध्यायादीनां वा पार्श्वे आलोचना देया । इयमत्र भावना - प्रायश्चित्तस्थानमापन्नेन साधुना श्राद्धेन वा नियमतः प्रथमस्वकीयानामाचार्याणां समीपे आलोचयितव्यम् । तेषामभावे उपाध्यायस्य, तस्याप्यभावे प्रवर्तिनः, तस्याप्यभावे स्थविरस्य, तस्याप्यभावे गणावच्छेदिनो वा समीपे आलोचना देया । अथ स्वगच्छे पञ्चानामप्यभावस्तर्हि किं कार्यम् ? इत्याह'संभोइय'त्ति । स्वगच्छे आचार्यादीनामभावेऽन्यस्मिन् साम्भोगिके-एकसामाचार्यादिवति गन्तव्यम् । तत्राप्याचार्यादिक्रमेणालोचयितव्यम् । साम्भोगिकगच्छेऽपि पञ्चानामाचार्यादीनामभावे 'इयर'त्ति । इतरोऽसाम्भोगिकः संविग्न इति तस्मिन् गन्तव्यम् । तत्राऽप्याचार्यादिक्रमेणैवालोचयितव्यम् । संविग्नाऽसाम्भोगिके गच्छे पञ्चानामभावे 'गीय'त्ति । पदैकदेशे पदसमुदायोपचाराद् गीतार्थः । एतच्च विशेषणं पार्श्वस्थ-सारूप्यपश्चात्कृतानां त्रयाणामपि योज्यम् ।
ततश्चायमर्थः- पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् । तस्मिन्नपि गीतार्थे पार्श्वथे अस गीतार्थस्य सारूपिकस्य पार्श्वे संयतवेषस्य गृहस्थस्य लिङ्गमात्रधारिण इत्यर्थः । तस्मिन्नपि गीतार्थसारूपिके असति पश्चात्कृतस्य गीतार्थस्य पार्श्वे आलोचयितव्यम् । पश्चात्कृतचरणस्य परित्यक्तचारित्रवेषस्य गृहस्थस्य पार्श्वे इति यावत् । पार्श्वस्थादीनां च मध्ये यस्य पुरत आलोचना दातुमिष्यते तमभ्युत्थाप्य तस्य पुरत आलोचयितव्यम् । अभ्युत्थापनं नाम वन्दनकप्रतीच्छनादिकं प्रत्यभ्युपगमकारापणा । अभ्युत्थिते वन्दनाप्रतीच्छनादिकं प्रति कृताभ्युपगमे प्रतिक्रान्तो भवेन्नान्यथा विनयमूलत्वाद्धर्मस्य । यदुक्तम्- 'विणओ सासणे मूलमित्यादि । अथ ते पार्श्वस्थादय आत्मानं हीनगुणं पश्यन्तो नाभ्युत्तिष्ठिन्ति तदा पार्श्वस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोचनीयम् । पश्चात्कृतस्य इत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् । यदि पार्श्वस्थादिकोऽभ्युत्तिष्ठति तदा तेनाऽन्यत्र गन्तव्यम् । येन प्रवचनलाघवं न भवति । तत्र च गत्वा तमापन्नप्रायश्चित्तं शुद्धतपो वाहयति मासादिकमुत्कर्षतः षण्मासपर्यवसानम् । अथ स नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्ततया दत्तं ततस्तत्रैव तपो वहतीति । पार्श्वस्थादीनामप्यभावे यत्र कोरण्टकादो गुणशीलादौ वा भगवान् मुनिसुव्रतस्वाम्यादिः श्रीवर्द्धमानस्वाम्यादिर्वा समवसृतस्तत्र तीर्थकरैर्गणधरैर्बहूनां बहूनि प्रायश्चित्तानि दत्तानि तानि च दीयमानानि तत्र तया देवतया दृष्टानि, ततस्तत्र गत्वा तत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र सम्यगाकम्पिताया देवतायाः