________________
१७६
गुरुतत्त्वसिद्धिः
-
आलोइत्तए, जाव पडिवज्जित्तए वा ।" इति । यत्र सम्यग्भावितानि सम्यग्दृष्टिभिर्भावितानि यथागमाज्ञं कारितानि प्रतिष्ठितानि च विधिचैत्यानि पश्येत् तेषां पुरः आलोच्यम्, न तु सर्वपार्श्वस्थादिनिश्रितानां अविधिचैत्यानाम्, आज्ञातिक्रमादिदोषसम्भवात्, अनायतनत्वाच्च । यदुक्तम् हरिभद्रसूरिकृतसम्यक्त्वकुलके“अहिगारिणो असड्ढो वावण्णकुमग्गकुमइरहिओ वा । ते कारइयव्वं जिणभवणं, वंदणिज्जमिणं ।।१४।। णिफाविऊणं एवं जिणभुवणं, सुंदरं तहिं बिम्बम् । विहिकारिअं च विहिआ सुपइट्ठा साहुणो मण्णा ।। १५ ।। व्यवहारभाष्येऽपि
" आगमविहिणा कारिय सुगुरुवएसे सुसावगेहिं च । णायज्जियवित्तेणं, तं आययणं जिणा बिंति ।। १९ ।। सण्णाणचरणदंसणपमुक्कसाहूहिं जा परिग्गहिया । ताओ जिrपडिमाओ अणाययणं हुंति जुत्तीए ।। २० ।। जिणबिम्बमणाययणं कुसाहुपरतंततया समुद्दिट्ठ । दिट्ठतो जिणपडिमा बोडियलिंगाइयाण इह ।। २१ ।। अणाययणं पुण णाणदंसणचरणगुणघायणं ठाणं । मुक्खत्थिसुधम्मिजणवज्जणिज्जं विसुद्धभावेण ।। २२ ।। पुष्टालम्बने तु तदपि वन्दनीयमेव । यदुक्तम् बृहद्भाष्येअसइ विहिचेइयम्मि, सद्धभंगाइकारणं णाऊं । वच्चति तत्थ मुणिणो णो मुणिणो जे अगीयत्था ||
अत एव
“भो ! भो पियंवर, जइऽवि जिणालए, तहऽवि साऽवज्जमिणं” इत्यादि महानिशीथ - पञ्चमाध्ययनवचनात्, (शिला २.२८७ पत्रे पङ्क्ति ३)
सुविहिताऽग्रणी कुवलयप्रभसूरिणा चैत्योद्धारविधानोपदेशः न दत्तः, अविधिरूपमिथ्यात्व - वृद्ध्यापत्तेः, इति । साम्प्रतं तु - "जीतेन अन्यतीर्थीयज्योतिष्काध्ययनवत्, सम्यक्त्वप्रकरण- दर्शनशुद्धिप्रकरणाद्यनुसारेण देशतो विधिचैत्यमपि उत्सर्गत: वन्दनीयतादितया अशठगीतार्थैः प्रतिपन्नम्, जीतस्य च पर्युषणाचतुर्थ्यादिवत् यावत् जिनाज्ञाविच्छेदनिरासार्थम् श्रुताऽनुसारेण न्यूनाधिकतया गीतार्थकृतमर्यादारूपत्वात् । अत्र विशेष:षट्त्रिंशज्जल्पतो बोध्यः ।" इति दिक् ।
किं च, अत्र पार्श्वस्थादीनामपि गीतार्थानामेव पुरः आलोच्यम्, न तु संविग्नस्याऽपि अगीतार्थस्य
पुरः ।
यतः
"अगीओ णवि जाणइ सोहिं च णरस्स देइ ऊणहियं ।
तो अप्पाणं आलोअगं च पाडेइ संसारे ।
अत एव, गीतार्थस्य दुर्लभत्वे कालतः - द्वादशवर्षाणि, क्षेत्रतः - सप्तयोजनशतानि तद्गवेषणा आगमे