Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust
View full book text
________________
१६२
गुरुतत्त्वसिद्धिः एताइँ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । ण भवति पवयणभत्ती, अभत्तिमंतादिया दोसा ॥४५४९।।
'एतानि' वाङ्नमस्कारादीनि पार्श्वस्थादीनां 'यथाऽहैं' यथायोग्यमर्हदेशिते मार्ग स्थितः सन् कषायोत्कटतया यो न करोति तेन प्रवचने भक्तिः कृता न भवति, किन्तु अभक्तिमत्त्वादयो दोषा भवन्ति; तत्राऽज्ञाभङ्गेन भगवतामभक्तिमत्त्वं भवति, आदिशब्दात् स्वार्थपरिभ्रंशः चारिक-हेरिकाद्यभ्याख्यानप्राप्तिः बन्धनादयश्च दोषा भवन्ति ।।४५४९।।
कानि पुनस्तेषां वन्दने कारणानि ? इत्याहपरिवार परिस पुरिसं, खित्तं कालं च आगमं नाउं । कारणजाते जाते, जहारिहं जस्स कायव्वं ।।४५५०।।
परिवार पर्षदं पुरुषं क्षेत्रं कालं च आगमं ज्ञात्वा तथा कारणानि-कुल-गणादिप्रयोजनानि तेषां जातं-प्रकारः कारणजातं तत्र 'जाते' उत्पन्ने सति 'यथार्ह' यस्य पुरुषस्य यद वाचिकं कायिकं वा वन्दनमनुकूलं तस्य तत् कर्त्तव्यम् ।।४५५०॥
अथ परिवारादीनि पदानि व्याचष्टेपरिवारो से सुविहितो, परिसगतो साहती व वेरग्गं । माणी दारुणभावो, णिसंस पुरिसाधमो पुरिसो ॥४५५१॥
'से' तस्य पार्श्वस्थादेर्यः परिवारः सः ‘सुविहितः' विहितानुष्ठानयुक्तो वर्त्तते । 'पर्षदि गतो वा' सभायामुपविष्टः 'वैराग्यम्' इति कारणे कार्योपचारात् संसारवैराग्यजनकं धर्म स कथयति येन प्रभूताः प्राणिनः संसारविरक्तचेतसः सञ्जायन्ते । तथा कश्चित् पार्श्वस्थादिः स्वभावादेव 'मानी' साहङ्कारः तथा 'दारुणभावः' रौद्राध्यवसायः 'नृशंसो नाम' क्रूरकर्मा अवन्द्यमानो वध-बन्धादिकं कारयतीत्यर्थः, अत एव पुरुषाणां मध्येऽधमः पुरुषाधमः एतादृशः पुरुष इह गृह्यते ।।४५५१।।
लोगपगतो निवे वा, अहवण रायादिदिक्खितो होज्जा । खित्तं विहमादि अभावियं व कालो यऽणाकालो ।।४५५२।।
यद्वा 'लोकप्रकृतः' बहुलोकसम्मतः, 'नृपप्रकृतो वा' धर्मकथादिलब्धिसम्पन्नतया राजबहुमतः, 'अहवण'त्ति अथवा राजादिदीक्षितोऽसौ शैलकाचार्यादिवद्, एवंविधः पुरुष इह प्रतिपत्तव्यः । क्षेत्रं नाम विहादिकमभावितं वा । विहं-कान्तारम्, आदिशब्दात् प्रत्यनीकाद्युपद्रवयुक्तम्, तत्र वर्तमानानां साधूनामसावुपग्रहं करोति । 'अभावितं नाम' संविग्नसाधुविषयश्रद्धाविकलम्, पार्श्वस्थादिभावितमित्यर्थः, तत्र तेषामनुवृत्तिं विदधानः स्थातव्यम् । कालश्च ‘अणागालो' दुष्काल उच्यते, तत्र साधूनां वर्तापनं करोति । एवं परिवारादीनि कारणानि विज्ञाय कृतिकर्म विधेयम् ।।४५५२।।
आगमग्रहणेन च द्वारगाथायां दर्शन-ज्ञानादिको भावः सूचितः, अतस्तमङ्गीकृत्य विधिमाहदसण-नाण-चरितं, तव-विणयं जत्थ जत्तियं जाणे । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं ।।४५५३॥ दर्शनं च-निःशङ्कितादिगुणोपेतं सम्यक्त्वं ज्ञानं च-आचारादि श्रुतं चारित्रं च

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260