Book Title: Gurutattva Siddhi
Author(s): Bhavyasundarvijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 194
________________ परिशिष्ट-१ १७१ गवाशनानां स गिरः शृणोति, अहं तु राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवतापि दृष्टं, संसर्गजा दोषगुणा भवंति ।।२।। ततस्तुतोष राजेति । अत्र कथानकम्-कादम्बर्यामटव्यामेकस्मिन् न्यग्रोधतरुकोटरे द्वौ शुको सहोदरौ जज्ञाते । तत्रैको म्लेच्छैः स्वगृहं नीतः स च पर्वतपल्लीसंवर्द्धितत्वात् 'गिरिशुक' इत्युच्यते, स च साङ्गत्यवशात् क्रूराध्यवसायो जातः । अन्यस्तु कुसुमसमृद्धतापसाश्रमवर्धितत्वात्पुष्पशुक' इति । सोऽपि सङ्गवशाद्धर्मपरोऽभूद् । अन्यदा विपरीतशिक्षाऽश्वापहतो वसन्तपुरात् कनककेतुराजाऽगमत् तत्र पल्लीसमीपे । ततो म्लेच्छभावितमतिना शुकेन वृक्षोपरिस्थितेन कथमपि दृष्टोऽसौ, उक्तं च तेन-अरे ! अरे ! पुलिन्दका ! इहस्थितानामेव भवतां राजाऽऽगतः, तदेनं शीघ्रं गृह्णीथ । ततो राज्ञा चिन्तितम्-यत्र पक्षिणोऽपीदृशाः स देशो दूरतो वर्ण्य इति मत्वा प्रपलायितो गतस्तापसाश्रमं, तदवलोकनात् पुष्पशुकोऽवादीत्-भो भो ! तापसकुमारका ! अतिखिन्नो अतिथिरागच्छति चतुराश्रमगुरुश्चैषोऽतः शीघ्रं ददध्वमासनं कुरुताऽऽतिथेयमिति कुमारकान् प्रोत्साहितवान् सम्पादितं तैः निर्वतिते च भोजने विगतखेदो नृपतिर्गिरिशुकवृत्तान्तं निवेद्य तस्मै किमेकजातीययोर्भवतोरेतावदन्तरमिति तं प्रपच्छ । सोऽवोचत् संसर्गगुणात् तथाहि माताऽप्येका पिताऽप्येका, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवासनैः ।।१।। गवासनानां स गिरः शृणोति, अहं तु राजन् मुनिपुङ्गवानाम् । प्रत्यक्षमेतद् भवताऽपि दृष्टं, संसर्गजा दोषगुणा भवन्ति ।।२।। ततस्तुतोष राजेत्येवं मत्वा दुःशीलसाङ्गत्यं हित्वा सुशीलैः सहाऽन्येनाऽपि संवासो विधेय इति । अधुनाक्षरार्थ:-गिरिशुक-पुष्पशुकयोः सुविहित ! शोभनानुष्ठान ! इति शिष्यामन्त्रणम्, आहरणे दृष्टान्ते यत् कारणं संसर्गदोषोपलक्षणं तद् विधिज्ञः प्रस्तुतदृष्टान्ततत्त्वप्रकारज्ञः सनित्यर्थः, किं ? वर्जयेः परिहरेः शीलविकलान् पार्श्वस्थादीन् न च तद्वर्जनामात्रेण तुष्टः स्यात् किं तर्हि ? उद्यतशीलः स्वयं भवेस्त्वं यतिर्मुनिरिति ।।२२७॥ तदेवमसति कारणे पार्श्वस्थादिवर्जनमभिधायाऽधुना कारणतस्तद्वन्दनप्राप्तिः, तैश्च यत् कर्तव्यं तदाह ओसन्नचरणकरणं, जइणो वंदंति कारणं पप्प । जे सुविइयपरमत्था, ते वंदंते निवारेंति ।।२२८।। 'ओसन०' गाहा, अवसन्नचरणकरणं शिथिलतरमूलोत्तरगुणं यतयः सुसाधवो वन्दन्ते कारणं पर्यायादिकं प्राप्याऽऽसाद्य तत्र ये शीतलविहारिणः सुविदितपरमार्था ज्ञातागमसद्भावा यदुत महतेऽनायेदमस्माकमित्यात्मज्ञास्ते वन्दमानान् सुसाधून निवारयंति एकवचननिर्देशे सति बहुवचननिर्देशः तेषां संविग्नपाक्षिकतया सुन्दरताज्ञापनार्थः ।।२२८।। व्यतिरेकमाहसुविहियं वंदावेंतो, नासेई अप्पयं तु सुपहाओ । दुविहपहविप्पमुक्को, कहमप्प न जाणई मूढो ।।२२९।। 'सुविहिय०' गाहा, सुविहितान् सुसाधून वन्दयंस्तद्वन्दननिषेधमकुर्वन्नाशयति आत्मानमेव,

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260