________________
गुरुतत्त्वसिद्धिः
(४/२) पृ. २० पं. २१
तेषां चावश्यंभाविनः प्रमादजनिता दोषलवाः, यदि तैः साधुर्वर्जनीयस्ततः सर्वेषामपि परिहरणीयता समायातेत्येतदेव चेतस्याधाय सूत्रकारः प्राह
१४८
कुसकुसीला तित्थं, दोसलवा तेसु नियमसंभवि ।
जड़ तेहि वज्जणिज्जो अवज्जणिज्जो तओ नत्थि ।। १३५ ।।
'जस्स हु जा तवदाणं, ता वयमेगंपि नो अइक्कमइ ।
एगं अइक्कमंतो, अइक्कमे पंच मूलेणं ।।' इति ।
बकुशकुशीला व्यावर्णितस्वरूपाः, तित्थंति भामा सत्यभामेति न्यायात् सर्वतीर्थकृतां तीर्थ संतानकारिणः संभवन्ति, अत एव दोषलवाः - सूक्ष्मदोषास्तेषु- बकुशकुशीलेषु नियमसंभविनः, यतस्तेषां द्वे गुणस्थानके प्रमत्ताप्रमत्ताख्ये अन्तर्मुहूर्त्तकालावस्थायिनी, तत्र यदा प्रमत्तगुणस्थानके वर्त्तते तदा प्रमादसद्भावादवश्यंभाविनः सूक्ष्मा दोषलवाः साधोः परं यावत् सप्तमप्रायश्चित्तापराधमापनीपद्यते तावत् स चारित्रवानेव ततः परमचारित्रः स्यात् । तथा चोक्तम्
(५) पृ. २२ पं. २२
तदेवं बकुशकुशीलेषु नियमभाविनो दोषलवाः, यदि तैर्वर्जनीयो यतिः स्यादवर्जनीयस्ततो नास्त्येव, तदभावे तीर्थस्याप्यभावप्रसङ्ग इति ।।१३५।।
अस्योपदेशस्य फलमाह
-
***
(६) पृ. २४ पं. १९
(धर्मरत्नप्रकरण)
***
इय भावियपरमत्था, मज्झत्था नियगुरुं न मुंचन्ति । सव्वगुणसंपओगं, अप्पाणमि वि अप्पिच्छंता ।। १३६ ।।
इति - पूर्वोक्तप्रकारेण भावितो - मनसि परिणामितः परमार्थो यथावस्थितपक्षो यैस्ते भावितपरमार्थामध्यस्था अपक्षपातिनो निजगुरुं-धर्माचार्यं मूलगुणमुक्तामाणिक्यरत्नाकरं न मुञ्चन्ति नैव व्युत्सृजन्ति सर्वगुणसंप्रयोगं - समग्रगुणसामग्रीमात्मन्यप्यपश्यन्तोऽनवलोकयन्त इति । । १३६ ।।
(धर्मरत्नप्रकरण)
(निशीथसूत्र )
संतगुणणासणा खलु, परपरिवाओ य होइ अलियं च । धम् य अबहुमाणो, साहुपदोसे य संसारो ।। ५४२९ ।।
चरणं णत्थि त्ति एवं भणंतेहिं साधूहिं संतगुणणासो कतो भवति, पवयणस्स परिभवो कतो भवति, अलियवयणं च भणितं भवति, चरणधम्मे पलोविज्जंते चरणधम्मे य अबहुमाणो कतो भवति, साधूण य पदोसो कतो भवति, साधुपदोसे य णियमा संसारो वुड्ढितो भवति । । ५४२९ ।।
****