Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ग्रन्थत्रयी
'दुविहा एत्थ अचेला संतासंतेसु होति विण्णेया । तित्थगरऽसंतचेला संताचेला भवे सेसा ॥' इति वचनम् ।
'द्विविधा-द्विप्रकारा अत्राऽऽचेलक्यविचारे अचेला-निर्वाससः सदसत्सुविद्यमानाऽविद्यमानेषु, चेलेष्विति गम्यम्, भवन्ति-स्युः विज्ञेया-ज्ञातव्याः । तत्र तीर्थकराजिनाः असच्चेलाः सन्तोऽचेला भवन्ति, शक्रोपनीतदेवदूष्यापगमानन्तरम् । तथा सद्भिर्वस्त्रैरचेलाः सन्तोऽचेलाः भवेयुः-स्युः शेषा:-जिनेभ्योऽन्ये साधवः' इति तवृत्तिः श्रीमदभयदेवसूरिभगवत्पादीया ।
- तत्र प्रथमपक्षानुसारिण:-'तीर्थकरा-जिना असच्चेलाः सन्तोऽचेला भवन्ति, शक्रोपनीतदेवदूष्यापगमानन्तर मिति वचनेन नाऽनगारवदाचेलक्यं तीर्थाधिपानामौपचारिकं किन्तु वास्तवमेव । तच्च भवत्यसति वस्त्रे, असत्ता चाऽपगमे देवदूष्यस्येति सर्वेषां जिनानां देवदूष्यापगमं तदनन्तरं चाऽसदचेलकत्वरूपं वास्तवमचेलकत्वं मन्यन्ते । द्वितीयपक्षानुसारिणस्तु-तीर्थकराणां यदि आचेलक्यं स्यात्तदा वास्तवमेव
असदचेलकत्वरूपम् । यथा-चरमजिनपतेराद्यदिन एव गतेऽपि वस्त्रार्धेनाऽऽचेलक्यं, किन्तु साधिकसंवत्सरादूर्ध्वं सर्वथाऽपगतवस्त्रत्वे । शेषमुनीनां तु न तथेति प्रतिपादनपरं'तित्थगर असंतचेला' इत्यादिवचनमिति । नैतावद्वचनबलेन द्वाविंशतिजिनानामप्यचेलकत्वस्थापनसाहसं सफलमिति द्वाविंशतिजिनानां सर्वदा सचेलकत्वमेव, प्रथमान्तिमयोश्च जिनयोः सचेलकत्वमचेलकत्वं च मन्यन्ते इति ।
____ अत्राऽपरे तु 'सर्वं वाक्यं सावधारणं भवतीति न्यायात् 'तित्थगर असंतचेला' इत्यत्राऽपि किमप्यवधारणं वाच्यम् । न चैवशब्दं विना कथमवधारणं स्यादिति वाच्यम्। क्वचिदेवशब्दं विनाऽप्यवधारणप्रतीतेः सर्वजनप्रसिद्धत्वात् । अत एव च'कम्ममणाहारे' इत्यत्र षडशीतिप्रकरणे एवकारं विनापि 'कार्मणमेवैकमनाहारके, न शेषयोगाः, असम्भवा'दित्यवधारणम् । केचित् 'कार्मणमनाहारकेष्वेवे'ति वाऽवधारणं मन्यन्ते प्रेक्षावन्तः । तत्र-'कार्मणमेवाऽनाहारके' इत्यत्र अनाहारके कार्मणकाययोगान्ययोगयोगव्यवच्छेदो बोध्यते । अनाहारकमार्गणायां कार्मणादन्यो योगो न भवतीति भावः । 'अनाहारकेष्वेव कार्मण' मित्यत्र तु कार्मणकाययोगेऽनाहारकभावान्यभावयोगव्यवच्छेदो बोध्यते । अनाहारकान्यवृत्तित्वाभाववान् अनाहारकवृत्तित्ववांश्च कार्मणकाययोगः-इति हि तत्र बोधः । यथा-'पृथिव्यामेव गन्धः' इत्यत्र पृथिव्यन्यसमवेतत्वाभाववान पृथ्वीसमवेतत्ववांश्च गन्धः-इति बोधः । तथा च कार्मणकाययोग आहारकमार्गणायां न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176