Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 149
________________ १४० ग्रन्थत्रयी आश्विनप्रतिपत् कृष्णा सा ज्ञेयाऽस्यां यतोऽविशत् । तिथिर्द्वितीया सर्वांश-रेकषष्टिलवात्मिका ॥' ज्योतिष्करण्डके तु- तइयंमि ओमरतं कायव्वं सत्तमंमि पक्खंमि । वासहिमगिम्हकाले चउ चउ मासे विधीयते ॥ इत्युक्तम् । एतदनुसारेण' चाषाढप्रतिपद आरभ्य यथोत्तरमेकषष्टितमासु भाद्रपदकृष्णप्रतिपदादिष्ववमरात्राः स्युः । परं ज्योतिष्करण्डकटीकायां श्रीमलयगिरिपादैरेवमुक्तम्'इहाषाढाद्या लोके ऋतवः प्रसिद्धिमैयरुस्ततो लौकिकव्यवहारमपक्ष्याषाढादारभ्य प्रतिदिवसमेकैकद्वाषष्टिभागहान्या वर्षाकालादिगतेषु तृतीयादिपर्वसु यथोक्ता अवमरात्राः प्रतिपाद्यन्ते। परमार्थतः पुनः श्रावणबहुलप्रतिपल्लक्षणाद्युगादित आरभ्य चतुश्चतुष्पतिक्रमे वेदितव्या, इति ज्ञेयम् ।' 'अश्विनस्य तृतीयाया असितायाः प्रभृत्यथ । कृष्णा तृतीया मार्गस्या-वमस्तुर्यान्विता भवेत् ॥ प्रभृत्यस्याश्च पञ्चम्या कृष्णा माघस्य पञ्चमी । युक्ता पतितया षष्ट्या प्राप्नोत्यवमरात्रताम् । एवं च- आश्विनो मार्गशीर्षश्च माघश्चैत्रस्तथा पर । ज्येष्ठस्ततः श्रावणश्च पुनरप्येत एव षट् ॥ पुनरप्याश्विनो मार्गो द्वितीयः पौष एव च । युगाद्यर्धे पञ्चदश मासाः सावमरात्रकाः ॥ आश्विनाघेषु मार्गान्ते-ष्वष्टस्वाद्येष्वनुक्रमात् । विषमाः प्रतिपन्मुख्याः स्युः कृष्णास्तिथयोऽवमाः ॥ माघादिषु स्युर्द्वितीय-पौषान्तेषु च सप्तसु । समसङ्ख्या द्वितीयाद्या उज्ज्वलास्तिथयोऽवमाः ।। विषमेयोऽवमेभ्यशा-निन्दास्तिथयः समाः । पतिताः स्युद्धितीयाद्या-स्तेऽष्ट प्रतिपदन्विताः ॥ अवमेभ्यः समेभ्यस्तु विषयास्तिथयः खलु । . भवन्ति पतिताः सप्त तृतीयाद्या यथोदिताः ॥ चैत्रो ज्येष्ठः श्रावणोऽश्व-युग्मार्गो माघ एव च । पुनः षडेते चैत्रोऽथ ज्येष्ठोऽन्त्याषाढ एव च ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176