Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 159
________________ १५० ग्रन्थत्रयी एवं च प्रागुपदर्शितदिशा टिप्पनकोक्तत्रयोदशीदिने चतुर्दश्याः क्षये प्रासे तस्या अपि नित्यपर्वतिथित्वेन तद्विषयेऽपि 'क्षये पूर्वेति वचनस्य सावकाशत्वेन तत्पूर्वस्यास्त्रयोदश्या एव तत्र दिने चतुर्दशीत्वेन प्रामाण्यम्, तत्रैव च चतुर्दश्यभेदाध्यारोपात् । तथा च टिप्पनकोक्ता त्रयोदश्येव तत्र चतुर्दशी जाता, चतुर्दशी च पूर्णिमा जातेति । त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपीति । त्रयोदश्यां-टिप्पनकोक्तत्रयोदशीदिने 'क्षये पूर्वेति वचनेनाऽऽराधनायां चतुर्दशीदिनत्वेनैव गणनीये विस्मृतौ 'अद्य चतुर्दशी कर्तव्याऽस्ति, पश्च पूर्णिमा कर्तव्याऽस्ति, त्रयोदश्याश्च क्षयः कर्तव्योऽस्तीत्युपयोगाभावेनाऽन्येन वा केनचित् कारणेन षष्ठतपोविषयकविस्मृतौ सत्यां टिप्पनकोक्तत्रयोदशी-चतुर्दशी-दिनयोराराधनायां क्रमेण चतुर्दशीपूर्णिमादिनत्वेनैव गणनीययोः षष्ठतपोऽकरणे 'प्रतिपद्यपी'ति टिप्पनकोक्तप्रतिपद्दिने, अपिशब्दस्य समुच्चयार्थकत्वेन तेन टिप्पनकोक्तचतुर्दशीदिनस्याराधनायां पूर्णिमादिनत्वेन गणनीयस्य समुच्चयात् । टिप्पनकोक्तचतुर्दशीदिने च षष्ठं तपः क्रियते । इत्युत्तरवचनस्यार्थः । तथा च टिप्पनके पूर्णिमाक्षये षष्ठतपः टिप्पनकोक्तत्रयोदशी-चतुर्दशीदिनयोः क्रियते । टिप्पनकोक्तत्रयोदश्यां षष्ठतपोविषयकविस्मृतौ सत्यां टिप्पनकोक्तचतुर्दशीप्रतिपद्दिनयोः षष्ठतपः क्रियते, इति भावः । अत्र 'त्रयोदशीचतुर्दश्योः क्रियते' इत्यत्र यदेवाऽन्वयि षष्ठतपः "विस्मृतौ' इत्यत्राऽपि तदेवाऽन्वयि, तदेव च 'प्रतिपद्यपी'त्यत्राप्यन्वयि । इत्थमेव चाऽस्योत्तरवचनस्य सङ्गतत्वं, नान्यथा । एवं 'त्रयोदशीचतुर्दश्यो'रित्यत्र चतुर्दशीग्रहणान्यथाऽनुपपत्त्यैव चाऽस्य पूर्णिमासम्बन्धिप्रश्नोत्तरस्य षष्ठतपोविषयकत्वमपि बोध्यम् । अन्यथा, यदि पूर्णिमामात्रसम्बन्धितपोविषयकत्वं प्रश्नोत्तरस्य स्यात्तदोत्तरवचने 'पूर्णिमायां त्रुटितायां त्रयोदश्यां क्रियते, त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपी'त्येवमेव वाच्यं स्यात् । तत्र 'त्रयोदशीचतुर्दश्यो'रित्युक्तेरसङ्गतत्वात् । पूर्णिमामात्रसम्बन्धितपस उभयदिनकर्तव्यताकत्वाभावात् । निरन्तरोपवासद्वयात्मकत्वेन षष्ठतपस एवोभयदिनकर्तव्यताकत्वात् । किञ्च, 'यदा पूर्णिमा क्षीयते तदा क्षीणपूर्णिमासम्बन्धि तपस्त्रयोदश्यां कार्यम्, तदनन्तरं चतुर्दश्यां चतुर्दश्यास्तपः कार्य मिति तव मतानुसारेणाऽपि तत्र त्रयोदशीमात्रग्रहणस्यैव युक्तत्वेन चतुर्दशीग्रहणस्य वैयर्थ्यमेवेति तत्र चतुर्दशीग्रहणमेवाऽन्यथाऽनुपपत्रं तस्य प्रश्नोत्तरस्य षष्ठतपोविषयकत्वं ज्ञापयतीति सूपपत्रम् । नन्वस्य प्रश्नोत्तरस्य षष्ठतपोविषयकत्वमेव, परमयं विशेषस्तस्यार्थे । तथा हि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176