Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 163
________________ १५४ ग्रन्थत्रयी क्षीणपूणिमयोर्द्वयोरपि तपोऽनुष्ठानादिसम्पूर्णाऽऽराधनायाः क्रमेण पृथक्पृथक् सम्भवेनैकत्र द्वयोराराधनासमावेशकल्पनाया निष्प्रमाणत्या निर्मूलत्वात् । पाक्षिकचातुर्मासिकादिषष्ठतपःप्रभृत्यभिग्रहवतां षष्ठादितपोविलोपापत्तेश्च । न च तादृशाभिग्रहवतां तत्र पृथगेव तपःसमाचरणं भविष्यतीत्यपि साम्प्रतम् । पृथगेव च तदनुष्ठानं पृथगेव च तत्तपःसमाचारणं भिन्नभिन्नदिनमादायेति खण्डखण्डाऽऽराधनाऽऽपत्तेः । तत्रापीष्टापत्तौ मानाभावाच्च । यद्दिनमादाय च पृथक् तत्तपःसमाचरणं प्रामाणिकं, तद्दिनमादायैव च तदाराधनाऽपि कथं न प्रामाणिकी ? इत्याराधनासमावेशकल्पनाऽपि निरस्तैव । - किञ्च तादृशाभिग्रहवता तत्र पूर्णिमातपः कुत्र कार्यम् ? किं त्रयोदश्यामुत प्रतिपदि ? नाद्यः, तपोव्युत्क्रमापत्तेरनिष्टत्वात् । न द्वितीयः, 'क्षये पूर्वेति विरोधापत्तेः । । 'प्रतिपद्यपी'ति श्रीहीरप्रश्नोत्तरवचनस्य च विस्मृतिमात्रविषयकत्वात् । अन्यथा च, . क्षीणपूर्णिमासम्बन्धितपोऽनुष्ठानादेरनन्तरोत्तरप्रतिपद्दिनमादायैव कर्तव्यतायाः प्रामाणिकत्वे श्रीहीरप्रश्नोत्तरे 'त्रयोदशीचतुर्दश्योः क्रियते' इत्यत्र, 'चतुर्दशीप्रतिपदोः क्रियते' इत्येवोत्तरवचनस्य सङ्गतत्वं स्याद्, न चैतदेवम्, तस्मान तथा । किञ्चैवं क्षीणपूर्णिमास्थलेऽनन्तरोत्तरप्रतिपद्दिनग्रहणे क्षीणचतुर्दशीस्थलेऽप्यनन्तरोत्तरपूर्णिमादिनग्रहणप्रसङ्गो दुर्निवारः स्यात् । अन्यथा, चतुर्दशीक्षये त्रयोदशीरूपा प्राचीना तिथिः, पूर्णिमाक्षये चोत्तरा प्रतिपद्रूपा तिथिाह्येत्येवंरूपाऽर्धजरतीयन्यायापत्तिः । तथा च वृश्चिकभिया पलायमानस्य तवाऽऽशीविषमुखे निपातः । शास्त्रानुसारि-शास्त्राऽबाधिताऽविच्छिन्न-तपागच्छीय-सुविहितपरम्पराया भीतस्य तवाऽऽगमपरम्परोभयं पथाऽतीतखतरमतप्रवेशप्रसङ्गात् । एतेन च 'पूर्णिमा-भाद्रशुक्लपञ्चमीप्रभृतिवृद्धौ प्रथमपूर्णिमा-प्रथमपञ्चमीप्रभृतिदिनमादायैव तत्सम्बन्धितपोऽनुष्ठानादि विधेय' मित्युच्छृङ्खलंप्रवादोऽपि परास्त एव बोध्यः । 'वृद्धौ कार्या तथोत्तरे' ति वचनविरोधापत्तेश्च । न च, क्षीणचतुर्दशीस्थले न पूर्णिमाग्रहणम्, तत्र चतुर्दशीभोगगन्धस्याप्यसम्भवात्, किन्तु त्रयोदश्या एव ग्रहणम् । यतस्त्रुटितत्वेन त्रयोदश्यां चतुर्दश्या वास्तव्येव स्थिति न तत्राऽऽरोपिता सती चतुर्दश्याराध्यते इति वाच्यम् । एवं हि क्षीणपूर्णिमास्थलेऽपि न प्रतिपद्ग्रहणं युक्तम्, तत्रापि पूर्णिमाभोगगन्धस्याप्यसम्भवात् । तत्र चाऽऽरोपिताया एव पूर्णिमाया आराध्यत्वप्रसङ्गात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176