Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१५९
पर्युषणातिथिविनिश्चयः॥
वस्तुतस्तु तत्राऽमावास्याक्षये शास्त्रपरम्परोभयसिद्धत्रयोदशीक्षयाऽनादरवतस्तव षष्ठतपःप्रश्नावकाश एव न स्यात् । यतोऽमावास्याक्षये चतुर्दश्यामेव पाक्षिकदिनत्वं । कल्पधरदिनत्वं च । अमावास्यापर्वणश्च टिप्पनके क्षीणत्वेन तव मते नास्त्येव तस्य पृथक् सत्ता । तत्क्षये च तदाराधनस्यापि तव मते व्यतीतत्वेन चतुर्दश्यां समाविष्टत्वेन वा नास्त्येव तस्य पृथगाराधनापीति ।
न चैवमपि षष्ठं तपः क्व विधेयमित्यस्त्येवाऽत्र प्रश्नाऽवकाश इति वाच्यम् ।
'त्रयोदशीचतुर्दश्योः षष्ठं तपः कार्य, यद्वा चतुर्दश्यमावास्ययो'रित्यादिविकल्पावकाशस्थल एव तादृशप्रश्नस्य सावकाशत्वात् । तव मते त्वमावास्यायाः क्षीणतयाऽसत्त्वेन पूर्वोक्तप्रभृतिविकल्पावकाशाभावानिरवकाश एव तत्र 'षष्ठं तपः । विधेय'मिति प्रश्नः । षष्ठतपोऽभिग्रही तु तत्र विकल्पाभावेन त्रयोदशीचतुर्दश्योरेव षष्ठं करिष्यतीति । तथा च प्रागुपदर्शितशास्त्र निर्दुष्टपरम्परागताया: पूर्णिमामावास्याक्षये त्रयोदशीक्षयकरणप्रवृत्तेबर्बाधकतयोपन्यस्तः 'यदा चतुर्दश्यां कल्पो वाच्यते' इत्यादिना षष्ठतपःप्रश्नः स्वस्वरूपमेव तव मते न लभेतेति कुतस्तस्य बाधकता ?। नहि गगनकुसुमं कस्यचिद्बाधकं साधकं वा भवति, स्वस्वरूपस्यैवाऽभावात् ।
__ प्रतिपदादिक्षयमाश्रित्य तु स्यादेवाऽऽवयोर्द्वयोरपि चतुर्दश्यां कल्पवाचनं षष्ठतपः प्रश्नावकाशश्च । परं, न तस्याऽस्मन्मतबाधकता त्वन्मतसाधकता वेति ।
नन्वेवमपि 'अमावास्यादिवृद्धौ' इति प्रश्नोपपत्तिः कथमिति चेत् । __इत्थम् । अत्र पूर्णिमामावास्ययोवृद्धौ श्रीविजयदेवसूरीयसम्प्रदायेऽस्मद्गुरुपर्यन्तं यावत् त्रयोदशीवृद्धिकरणप्रवृत्तिः । सम्प्रदायान्तरे च प्रतिपद्वृद्धिकरणप्रवृत्तिरिति प्रकाद्धयान्यतरप्रकारमाश्रित्यैव 'यदा चतुर्दश्यां कल्पो वाच्यते, अमावास्यादिवृद्धौ वाऽमावास्यायां प्रतिपदि वा कल्पो वाच्यते तदा षष्ठतपः क्व विधेय?"मिति प्रश्नः । अत्रोत्तरम्-षष्ठतपोविधाने दिननैयत्यं नास्तीति यथारुचि तद्विधीयतामिति कोऽत्राऽऽग्रहः ?' इत्यत्र, 'अमावास्यादिवृद्धौ' इति प्रश्नस्यापि घटना । तत्र प्रथमप्रकारे-प्रथमत्रयोदश्यां पर्युषणाप्रारम्भः, द्वितीयत्रयोदश्यां पारणकं, चतुर्दश्यां तृतीयदिनं, अमावास्यायां कल्पवाचनमिति । द्वितीयप्रकारे तु-त्रयोदश्यां प्रारम्भः, चतुर्दश्यां द्वितीयादिनं, अमावास्यायां तृतीयदिनं प्रथमायां प्रतिपदि कल्पवाचनमिति । तथा चाऽत्राऽमावास्यावृद्धौ कैश्चित त्रयोदशीवृद्धिमानिभिरमावास्यायां कल्पो वाच्यते, कैश्चिच्च प्रतिपवृद्धिमानिभिः प्रतिपदीति प्रथमप्रतिपदि कल्पो वाच्यते । अत्रोभयेषामपि पर्युषणाष्टाह्निकाप्रारम्भदिनैक्यम्, पर्युषणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176