Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पर्युषणातिथिविनिश्चयः ॥
समावेशस्याऽयोग्यत्वात् । 'पर्युषणोपवासः पञ्चमीमध्ये गण्यते न वे' ति श्रीहीरप्रश्नोत्तरस्य 'षष्ठकरणशक्त्यभावे पञ्चम्युपवासः पञ्चम्यां विधीयतेऽथवा पर्युषणाचतुर्थ्या' मिति श्रीसेनप्रश्नोत्तरस्य च षष्ठकरणशक्त्यभावविषयकत्वात्, क्षीणपञ्चमीविषयकत्वाभावाच्च । न ततोऽपि समावेशसिद्धिप्रत्याशेत्यपि बोध्यम् ।
१५७
इत्थमेव च 'करोति तदा भव्य' मिति प्रागुक्त श्रीहीरप्रश्नोत्तरोक्तेऽपि सङ्गतत्वम्, अन्यथा समावेशे तु तदुक्तेरपि वैयर्थ्यात् ।
एवम्-'तथा रोहिण्युपवासः पञ्चम्याद्युपवासश्च कारणे सति मिलन्त्यां तिथौ क्रियते न वा ? । इति प्रश्नः । अत्रोत्तरम् - कारणे सति मिलन्त्यां तिथौ क्रियते कार्यते चेति प्रवृत्तिर्दृश्यते । कारणं विना तूदयप्राप्तायामेवेति बोध्यम्' इति सेनप्रश्नोत्तरवचनस्य क्षयरूपकारणे सति पञ्चम्यादितिथिसम्बन्धितपोऽनुष्ठानादेः पूर्वतिथौ समावेशो गणनीय इत्यर्थं परिकल्प्य क्षीणभाद्रशुक्लपञ्चम्याराधनायाश्चतुर्थ्यां समावेशकल्पनाऽप्यज्ञानविजृम्भितैव बोध्या । तत्प्रश्नोत्तरस्य क्षीणपञ्चम्यादिविषयकत्वाऽसिद्धेः । 'कारणे सति' इत्यस्य क्षयरूपकारणे सति ‘मिलन्त्यां तिथौ क्रियते कार्यते चे' त्यस्य 'पूर्वतिथौ समावेशो गणनीय' इत्यर्थकत्वे मानाभावाच्च ।
वस्तुतस्तु, ‘औदयिक पञ्चम्यादिलाभेऽपि कारणे सत्यनौदयिक्यां तत्तपोऽनुष्ठानादि क्रियते कार्यते चेति, तथा च कारणे सति 'उदयंमि जा तिहि' इत्यादिवचनाऽऽवेदितौदयिकनियमबाधेऽपि न प्रत्यवायाशङ्का विधेये' त्येवंरूपतात्पर्यकत्वमेवैतत् प्रश्नोत्तरस्य । अन्यथा, 'क्षये पूर्वे' ति वचनेनैव गतार्थत्वेनैतत्प्रश्नोत्तरस्योत्थानाऽनुपपत्तेश्चेत्यलम् ।
नन्वस्त्वेतत् । परं टिप्पनके पूर्णिमाया अमावास्यायाश्च क्षये वृद्धौ चाऽऽराधनायां 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे 'ति वचनानुसारेण त्रयोदश्याः क्षयवृद्धिकरणे श्रीहीरप्रश्नोत्तरे 'यदा चतुर्दश्यां कल्पो वाच्यते' इत्यादिरूपः प्रश्न एव न स्यात् । प्रत्युताऽमावास्यायाः क्षये वृद्धौ च त्रयोदशीक्षयवृद्ध्यकरण एव तथाप्रश्नस्योपपत्तिः । तथाहि -अमावास्यायाः क्षये त्रयोदशीक्षयाकरण एव चतुर्दश्यां कल्पवाचनं प्राप्यते । यतः एकादश्यां पर्युषणाऽष्टाह्निकाप्रारम्भदिनोपवासः, द्वादश्यां पारणकं, त्रयोदश्यां तृतीयदिनं, चतुर्दश्यां च कल्पवाचनमिति । यदि च तदा त्रयोदशीक्षयः क्रियते तदैकादश्यां प्रारम्भः, द्वादश्यां पारणकं, चतुर्दश्यां तृतीयदिनम्, अमावास्यायां कल्पवाचनमिति चतुर्दश्यां कल्पवाचनमेव न प्राप्यते इति कथं षष्ठतपः प्रश्नावकाश: ? । एवम् अमावास्याया वृद्धौ त्रयोदशीवृद्धिकरणेऽप्यमावास्यादिवृद्धौ वाऽमावास्यायां प्रतिपदि वेत्यादिनाऽपि षष्ठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176