Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 172
________________ पर्युषणातिथिविनिश्चयः ॥ १६३ सकल श्रीचतुर्विधसङ्घरूप श्री श्रीमणसङ्घपरिगृहीतत्वादन्यटिप्पनकस्थस्याऽपि षष्ठीक्षयस्याऽनुसरणस्यैव प्रामाण्यं युक्तियुक्तत्वं च । इत्थं च सकल श्री श्रमणसङ्घसमुदयेन सह तदानीमपि षष्ठीक्षयाऽनुसरणे चतुथ्या शुक्रवासरे च सांवत्सरिकमहापर्वकरणे च शास्त्राबाधितशास्त्रानुसारिशिष्टपरम्पराऽप्यनुसृतैव । अस्माकं तु पर्वाद्याराधनात्मकस्य कस्यापि धार्मिकाचरणस्य ग्रामनगररादिसकलश्रीसङ्क्तः पृथग्भूय कर्तव्यताभिलाषकणावकाशोऽपि न सुन्दरः प्रतिभाति । अयं च श्रीपर्युषणातिथिनिर्णयोऽस्माभिर्यथाक्षयोपशमं शास्त्रतात्पर्यमाकलय्य यथा सम्यक् प्रतिभातस्तथैव दर्शितः । परं नास्मिन्नस्मन्मीमांसितेऽर्थेऽस्मदुक्तंमेव सत्यं, नाऽन्यदित्येवंविधोऽस्माकं प्रामाण्याभिनिवेशः । किन्तु 'तमेव सच्चं णिस्संकं जं जिणेहि पवेइयं' इत्यत्रैवास्माकमाग्रहः । यथार्थभावेन गीतार्थे: श्री श्रमणसङ्घेन च विभाव्यैव चाऽस्मदुक्तं प्रमाणयितव्यम् । तत्र शास्त्रबाधासम्भवेऽस्माकमपि मिथ्यादुष्कृतमेव भूयादिति । श्रीशत्रुञ्जयतीर्थराजतरण श्रीमारुदेवं प्रभुं श्रीमच्छान्तिजिनं च जामनगरे श्री रैवताधीश्वरम् । श्रीनेमिं प्रकटप्रभावनिभूतं पाश्वं च सेरीसके श्रीकादम्बकमौलिरत्नमनिशं श्रीवर्धमानं स्तुवे ॥ १ ॥ पृथ्वीपुत्रोऽपि योऽसावतिचरणपदातीतरूपेण रम्यो रागातीतस्वभावो मृगगमनमृतेऽप्युच्चभावं दधानः । सर्वस्थानस्थितोऽपि प्रकटितकुशलो नैव वक्रो न चास्त इन्द्रार्ण्यक्षेन्द्रभूतिर्भवतु स गणभृद्गौतमो मङ्गलाय ॥ २ ॥ निर्ग्रन्थोऽभिधया सुधर्मगणितः श्रीसुस्थितात्कोटिकश्चन्द्रश्चन्द्रगुरो र्वनेत्यभिधया सामन्तभद्रप्रभोः । विख्यातः प्रभुसर्वदेवसुगुरोर्गच्छो वटेत्याख्यया सोऽयं चैव तपाख्यया विजयते सूरेर्जगच्चन्द्रतः ॥ ३॥ तस्मिन् शास्त्रपरम्परोभयबले गच्छेऽच्छनीतिप्रथे सम्राट् सूरिषु राजते गुणनिधिः श्रीनेमिसूरीश्वरः । यस्याऽध्यात्मनयप्रमाणललिता वाणी वरत्रायते संसारान्धककूपमग्नजनुषां भव्यात्मनामुद्धृतौ ॥ ४ ॥ यस्य ग्रन्थगवी प्रमाणवितताऽनेकान्तमार्गप्रथा क्ष्मापान्तःकरणाऽऽहताऽभयप्रदा भव्यालिबोधोद्धुरा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176