Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 170
________________ पर्युषणातिथिविनिश्चयः ॥ भाद्रशुक्लचतुर्थीकर्तव्यताकत्वेन ततः प्रभृति भाद्रशुक्लचतुर्थ्या अपि पर्वतिथित्वमस्तीति विभाव्यते, तथापि तदपेक्षया तस्या नैमित्तिकपर्वतिथित्वमेव न तु नित्यपर्वतिथित्वम् । तथा च तस्याः क्षयवृद्धिस्वीकारेऽपि न काचिद् बाधा । 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे 'ति विशेषवचनस्य तथाविधा पूर्वतिथिक्षयवृद्धिगणनरूपा नित्यपर्वतिथिविषयिकैव सुविहितपरम्परागता प्रवृत्तिर्दृश्यते इति कल्याणकतिथाविव भाद्रशुक्लचतुर्थ्यामपि नित्यपर्वतिथित्वाभावेन तद्वचनस्य न तत्र तथाविधा प्रवृत्तिः । वस्तुतस्तु श्रीपर्युषणापर्वणो न भाद्रशुक्लचतुर्थीकर्तव्यताकत्वनियमः । किन्तु, 'अंतरा वि य से कप्पइ' इत्यनेन वचनेनाऽऽराध्यभाद्रशुक्लपञ्चमीदिनाऽव्यवहितपूर्वदिनकर्तव्यताकत्वनियमः । 'चउत्थी पत्तिया' इत्यादौ चतुर्थीशब्दस्यापि तदव्यवहितपूर्वदिनपरत्वस्यैव प्राग् व्यवस्थापितत्वेन तत्र चतुर्थीपरत्वाऽऽग्रहस्याऽप्यनौचित्यमेव । १६१ एवं 'पञ्चाशतैव दिनैः पर्युषणा युक्तेति वृद्धाः' इत्यादिवचनानामपि पर्युषणाया आराध्यभाद्रशुक्लपञ्चमीदिनाऽव्यवहितपूर्वदिनकर्तव्यताकत्व एव तात्पर्य विभावनीयम् । तथा च भाद्रशुक्लपञ्चम्याः क्षये चतुर्थ्या एव क्षयः कार्यः । वृद्धौ च प्रागुपदर्शितरीत्या च चतुर्थ्या एव वृद्धिः कार्या । न तु तृतीयायाः । एवं भाद्रशुक्लचतुर्थ्याः क्षयेऽपि चतुर्थ्या एव क्षयो गणनीयः । वृद्धावपि चतुर्थ्या एव वृद्धिर्गणनीया । न तु तृतीयायाः । सर्वत्राऽपि श्रीपर्युषणापर्वण आराध्यभाद्रशुक्लपञ्चमीदिनाऽव्यवहितपूर्वदिनकर्तव्यताकत्वस्य निराबाधत्वान्नाऽनुपपत्तिलेशोऽपीति । अत्रोभयपक्षेऽपि भाद्रशुक्लपञ्चम्या भाद्रशुकलचतुर्थ्या वा क्षये वृद्धौ वा पर्युषणादिनैक्यमेवेति बोध्यम् । तृतीयः पन्थास्तु आधुनिकः शास्त्रपरम्परोभयपथातीतत्वेन निष्प्रमाणतयाऽनुपादेय एवेति । नन्वेवं वि० सं० १९८९ तमे वर्षे चण्डुटिप्पनके भाद्रशुक्लपञ्चम्याः क्षयसत्त्वेऽपि कथं प्रायः सर्वत्र श्रीश्रमणसङ्घेन षष्ट्या एव क्षयः स्वीकृतः, न तु चतुर्थ्या: ? । चतुर्थ्यां शुक्रवासरे एव चाऽऽराधितं सांवत्सरिकं महापर्व, न तु तृतीयायां गुरुवासरे ?, इति चेत् । सत्यम् । परं तदा चण्डुटिप्पनकानुसरणेन न षष्ठीक्षयः स्वीकृतः । किन्त्वन्यटिप्पनकानुसारेणैव तदा षष्ठोक्षयः प्रायः सर्वत्र श्री श्रमणसङ्घेन स्वीकृतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176