Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 171
________________ १६२ ग्रन्थत्रयी तस्मिन् वर्षे चण्डुटिप्पनकादन्यत्र प्रायः सर्वत्र टिप्पनकेषु षष्ठीक्षयस्यैव सत्त्वात् । यथा वि०सं० १९५२ तमे वर्षे चण्डुटिप्पनके भाद्रशुक्लपञ्चम्याः क्षयसत्त्वेऽपि जयपुरटिप्पनकोज्जयिनीटिप्पनक-काशीटिप्पनकादिष्वनेकेषु टिप्पनकेषु षष्ठीक्षयस्य सत्त्वेन सर्वत्र श्री श्रमणसङ्घेन षष्ठीक्षय एव स्वीकृतः । तदानीं तु पुनर्न केवलमन्यटिप्पनकेषु बहुवुः षष्ठीक्षयदर्शनमात्रात्तदादरणं कृतमपि तु चण्डुटिप्पनककारकथनादपि । यतञ्चण्डुटिप्पनककार एव तदा- 'मट्टिप्पनके यद्यपि पञ्चमीक्षयो वर्तते तथापि जैनैस्तु षष्ठीक्षय एव कार्य:, चतुर्थ्यां शुक्रवार एव च विधेयं सांवत्सरिकं पर्वे 'ति न्यवेदयत् । तथा च चण्डुटिप्पनककारवचनस्यैवाऽऽहतत्वेन कुतस्तट्टिप्पनकवचनस्याऽनादरसङ्कल्पाsaकाशोऽपि ? 1 वि० सं० १९६१ तमे वर्षेऽप्येवमेवेति । तथा च न तत्र काऽपि क्षतिरिति बोध्यम् । किञ्च, लोकोत्तरमार्गेऽपि कारणे यदा कदाचित् 'आउरदिट्टंतेणं तं चैव हियं असंथरणे' इति वचनमालम्ब्याऽऽचरणेऽपि न भवति 'जं भत्तपाणं उग्गमउप्पायनेसणेहिं सुद्धं वा निस्संकियं वा न भवइ । दितियं पडियाइक्खे न मे कप्पइ तारिसं' इत्यादि वचनस्याऽनादरशङ्काकणाऽवकाशोऽपि । किं पुनः टिप्पनकादौ तु यदा कदाचिदन्यटिप्पनकस्थषष्ठीक्षयावलम्बनेऽपि चण्डुटिप्पनकस्याऽनादरशङ्का ? 1 I न च (ननु) तत्र कल्य्याऽकल्प्ये उत्सर्गापवादविषयैव विचारणेति न दोषः इति चेत् । तर्ह्यत्रापि तथैव किं न विचार्यताम् ? । न हि तावदस्ति किञ्चिन्मानं, यल्लौकिके टिप्पनकादौ च विचारणायामपवादवार्तव नेति । इत्थं च श्रीश्रमणसङ्घेनैव चण्डुटिप्पनकानुसरणमादृतम् । श्री श्रमणसङ्घेनैव यदा कदाचित्कारणविशेषतोऽपेक्षाविशेषतो वाऽन्यटिप्पनकानुसारेण षष्ठीक्षय आदृतस्तत्र का नाम बाधा ? । को नाम शास्त्रविरोध: ? । न हि क्वचित् शास्त्रे चण्डुटिप्पनकमेव सर्वदाऽऽदरणीयं नान्यत् टिप्पनक-मितिविधिर्वा निषेधो वा दृष्टः श्रुतो वेति । प्रत्युत श्रीपारमर्षे प्रवचने तु सर्वत्राऽपि 'तम्हा सव्वाणुन्ना, सव्वनिसेहो व पवयणे नत्थि ।' इत्यादि वचनमेव विभावनीयमिति । तदानी चण्डटिप्पनके पञ्चमीक्षयेऽपि कतिपयजनातिरिक्तसकलग्रामनगराादस्थित Jain Education International - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176