Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१६४
ग्रन्थत्रयी पञ्चहुर्नयतारकाकवलिनी जाग्रद्दशाधायिनी जीयात्स प्रबलप्रतापमहिमा सूरीश्वरोऽहर्पतिः ॥ ५ ॥ ऐदंयुगीन उदयी स युगप्रधानः, श्रीनेमिसूरिभगवान् विहितप्रसादः । श्रद्धाविलेऽस्तु कृपया मयि भक्तिलेशे यस्य प्रभावत इयं सफला प्रवृत्तिः ॥६॥ तत्पट्टाम्बरभास्करो विजयते सिद्धान्तवाचस्पतिः सूरिः श्रीविजयोदयः शमवतामग्रेसरत्वं दधत् । तत्पट्टागतनन्दनेन नभसः शुक्ले दिने पञ्चमे । वयङ्काङ्कविधौ च जामनगरे ग्रन्थः कृतः सूरिणा ॥ ७ ॥ सिद्धान्तशास्त्रनयशुद्धपरम्परातो यद् गुम्फितं जडधिया मयका विरुद्धम् । शोध्यं तदत्र कृपया समयज्ञवृन्दैमिथ्या च दुष्कृतमिहास्तु ममापि नूनम् ॥ ८ ॥ श्रीरस्तु ॥
इति श्रीपरमपूज्य-परमोपकारि-सकलसिद्धान्ततर्कव्याकरणादिविविधशास्त्रवाचस्पति-निखिलभव्योपकारखणीतन्यायप्रभा-तत्त्वप्रभा-प्रतिमामार्तण्ड-न्यायसिन्धुसप्तभङ्ग्युपनिषद्-नयोपनिषद्-स्वोपज्ञवृत्तिसमेतानेकान्ततत्त्वमीमांसा-बृहद्हेमप्रभालघुहेमप्रभा-परमलघुहेमप्रभाधनेकग्रन्थसन्दर्भविहितव्याख्या-प्रज्ञप्त्यादियोगोद्वहनप्रभृतिप्रवचनोक्तक्रियाकलापसमाराधितविद्यापीठादिपञ्चप्रस्थानमयीश्रीसूरिमन्त्र-सर्वतन्त्रस्वतन्त्र - शासनसम्राट्-सूरिचक्रचक्रवर्ति-जगद्गुरु-परोपकारैकार्पितकरण-तीर्थप्रभावनैकबद्धलक्ष्यप्रातःस्मरणीय-तपागच्छाधिपति-सुगृहीतनामधेय-भट्टारक-पूज्यपादाऽऽचार्यमहाराजाधिराजश्रीश्रीश्रीश्रीश्री १००८ श्रीश्रीमद् विजयनेमिसूरीश्वरपट्टाम्बरनभोमणि-सिद्धान्तवाचस्पतिन्यायविशारद-आचार्यमहाराज-श्रीविजयोदयसूरीश्वरपट्टधर-न्यायवाचस्पति-सिद्धान्तमार्तण्ड-शास्त्रविशारद-कविरत्नविजयनन्दनसूरिविरचितः श्रीपर्युषणातिथिविनिश्चयः ।
लिखितचाऽयं विक्रमातीतवेदनिध्यङ्कविधुमिते (१९९४) वर्षे वैशाखशुक्लदशम्यां सोपवासरे सर्वतीर्थसार्वभौमतीर्थाधिराजश्रीसिद्धगिरिभगवन्मुख्यशृङ्गसदृशप्रभावाढ्यसजीवनकूटरूपगतचतुर्विशिकाचतुर्विंशश्रीसम्प्रतितीर्थकृद्गणभृत्कोटिमुनिसमन्वितश्रीकदम्बगणधरसिद्धिनिकेतनाऽपारमहिमशालिछायावृक्षकल्पवृक्षरसकूपिकारत्रखानिप्रकट- . प्रभावानेकौषधिपरिकलिततीर्थाधिराजश्रीकदम्बगिरितीर्थस्योपरि प्राक् श्रीश्रीनाभगणधरसदुपदेशेन श्रीभरतचक्रिनिर्मापितश्रीवर्धमानस्वामिप्रासादे तपागच्छीयश्रीधर्मोद्याने निरन्तराऽस्खलितदृढतरतीर्थभक्त्या अचिन्त्योत्साहेनाऽसाधारणमतिवैभवेनाऽमोघोपदेशदानेन भक्तेभ्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 171 172 173 174 175 176