Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
. १६५
पर्युषणातिथिविनिश्चयः॥ उदारचित्तेभ्यो भव्यश्रावकेभ्योऽनेकद्रव्यलक्षव्ययेन कारितश्रीतीर्थराजश्रीकदम्बागिरितीर्थसमुद्धाराणां प्रवर्तापितशास्त्रोपदर्शिततन्महामहिम्नां सर्वतन्त्रस्वतन्त्राणां शासनसम्राजां सूरिचक्रचक्रवर्तिनां जगद्गुरूणां तपागच्छाधिपतीनां भट्टारकाचार्याणां श्रीविजयनेमिसूरीश्वराणां स्वपट्टधरल्यायवाचस्पतिशास्त्रविशारदश्रीविजयदर्शनसूरि-सिद्धान्तवाचस्पतिन्यायविशारदश्रीविजयोदयसूरि-तत्पट्टधरश्रीविजयनन्दनसूरि-स्वपट्टधर-श्रीविजयविज्ञानसूरि-पन्यासश्रीकस्तूरविजयगणि-पन्न्यासश्रीसोमविजयगणि-प्रवर्तकमुनिश्रीगीर्वाणविजयप्रभृत्यनेकसाधुसमुदयपरिवृतानां सदुपदेशेनाऽनेकसाध्वीजनेषु-दशसहस्रसङ्ख्यकेषु श्रावक-श्राविकाजनेषु-पञ्चसहस्रसङ्ख्यकेषु जैनेतरजनेषु च सम्मिलितेषु जावालग्राम-भावनगर-राजनगरस्तम्भतीर्था-ऽणहिल्लपत्तनप्रभृति-नगरवास्तव्यैः सुश्राद्धैः द्रव्यशतसहस्रव्ययेन चैत्रकृष्णैकादशीदिनादारभ्य पञ्चदशदिनानि यावनिष्प्रत्यूहं साधर्मिकवात्सल्य-पूजा-प्रभावनाऽनेकरथयात्राऽ-नेकप्रकारतीर्थादिरचनाशेषशास्त्रोक्तकर्मकाण्डविधानादिभिः द्वापञ्चाशज्जिनालयमण्डिते श्रीऋषभविहाराभिधश्रीऋषभस्वामिप्रासादेश्रीसूर्यकुण्डसमीपवर्तिनि श्रीनेमिविहाराभिधश्रीनेमिनाथस्वामिप्रासादे तदुपरितनभागे श्रीसीमन्धरस्वामिप्रासादे स्थायिरचनात्मकश्रीसिद्धगिरौ च श्रीऋषभस्वामि-श्रीनेमिनाथश्रीसीमन्धरस्वामिप्रभृतिजिनबिम्बानां शतत्रयीप्रमितानां रत्नमयजिनबिम्ब-राजतजिनबिम्बराजतसिद्धचक्रपट्टक-राजतैङ्कारहीङ्कारपट्टकजिनपादुकासमेतानां सार्धचतुःशतीप्रमितानां च शास्त्रोक्तविधिपुरस्सरं प्रतिष्ठादिमहामहोत्सवे प्रवर्तमाने तीर्थाधिराजश्रीकदम्बगिरितीर्थपरिसरे बोदानानेसेत्यपराभिधानायां श्रीकदम्बपुर्यां द्वासप्ततिदेवकुलिकामण्डितश्रीकदम्बविहाराभिधश्रीवर्धमानस्वामिप्रासाद-धर्मशालापौषधशाला-तपागच्छीयश्रेष्ठिजिनदासधर्मदासाभिधसंस्थालयप्रभृतिधर्मस्थानपरिकलिते तपागच्छीयश्रीधर्माराममध्ये जामनगरवासिश्रेष्ठिसङ्घपतिपोपटलालभाइ-धारशीभाइ-श्रेष्ठिसङ्घपतिचुनीलालभाइलक्ष्मीचन्द्र-इत्येताभ्यां कारिततपागच्छीयोपाश्रयोपकलितायां राजनगरवासिश्रेष्ठिमाणेकलालभाइचुनीलालभाईकारिततपागच्छीयसप्तापवरकधर्मशालोपशोभितायां तपागच्छीयैकादशापवरकधर्मशाला-तपागच्छीयचत्वारिंशदपवरकधर्मशाला-पुष्पवाटिका-कूपद्वयंप्रभृति-स्थानपरिकलितायां श्रीतपागच्छवृद्धिवाटिकायां जयतारणवास्तव्येन दीपचन्द्रसूनुना शिवराजनाम्ना लेखकेन । शुभं भवतु श्रीश्रमणसङ्घस्य ।
प्रतिरियं तपागच्छाधिपतिभट्टारकाऽऽचार्यश्रीविजयनेमिसूरिचित्कोषसत्का ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 172 173 174 175 176