Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 164
________________ पर्युषणातिथिविनिश्चयः ॥ १५५ किञ्च, तद्भोगवत्त्वस्य तद्ग्रहणप्रयोजकतावच्छेदकत्वमन्तरा न तद्भोगवत्त्वाभावस्य तदग्रहणप्रयोजकत्वं सम्भवति । प्रयोजकताऽवच्छेदकधर्माऽवच्छिनाऽभावस्यैव प्रयोज्यताऽवच्छेदकधर्माऽवच्छिन्नाऽभावप्रयोजकत्वात् । औदयिकतिथिस्वीकारान्यतिथितिरस्कारप्रवणस्य भवतस्तत्तत्तिथिग्रहणे तत्तदौदयिकत्वस्यैव प्रयोजकत्वस्य वाच्यत्वात् । औदयिकत्वाग्रहवतो भवतो भोगवत्त्वप्रयोजकत्वस्य वक्तुमप्यशक्यत्वात् । औदयिकत्वाभावस्य च क्षीणचतुर्दश्यादिस्थले त्रयोदशी-पूर्णिमाद्योरूभयत्रापि समानत्वात्। तत्र त्रयोदशीग्रहणं, न पूर्णिमाग्रहणम्; पूर्णिमायां त्रुटितायां च प्रतिद्ग्रहणं, न चतुर्दशीग्रहणमित्यत्र विनिगमकाभाव एव । एतेन समाप्तिमत्त्वस्य प्रयोजकताऽपि निरस्ता। सर्वत्रौदयिकतिथिस्वीकारसिद्धान्तविलयापत्तेः । क्वचिदौदयिकत्वस्य क्वचिद्भोगवत्त्वस्य चित्समाप्तिमत्त्वस्य प्रयोजकतेति निर्मूलायाः स्वेच्छजन्यकल्पनायाश्चानुपादेयत्वात् । न च सर्वत्र समाप्तिमत्तिथिस्वीकारान्यतिथितिरस्कारप्रवणतैवाऽस्माकमस्तु, अस्तु च सर्वत्रौदयिकतिथिस्वीकारसिद्धान्तविलयः । तथा च त्रुटितचतुर्दशीस्थळे त्रयोदश्या एव ग्रहणम्, तत्रैव चतुर्दश्याः समाप्तिमत्त्वात् । न तु पूर्णिमायाः, तत्र चतुर्दशीसमाप्तिमत्त्वाभावादिति वाच्यम् । ___ एवं हि क्षीणपूर्णिमास्थलेऽप्यनन्तरोत्तरदिने तत्समाप्तिमत्त्वाभावात् तदग्रहणप्रसङ्गेन तत्रानन्तरोत्तरदिनग्रहणरूपत्वत्सिद्धान्तक्षतिप्रसङ्गात् । न वा समाप्तिमत्त्वमस्तीत्येतावता समाप्तिमत्त्वस्य प्रयोजकता, तत्र समाप्तिमत्त्वस्याऽन्यथासिद्धत्वात् । समाप्तिमत्त्वेन प्रयोजकतायां च प्रमाणाभावात् । 'उदयंमि जा तिही' इत्यादिप्रागुपदर्शितानां प्रामाणिकत्वेनोभयपक्षसम्मतानां वचनानां समाप्तिघटितत्वाऽभावादुदयमात्रघटितत्वाच्च तैः सह विरोधाऽऽपतेः । एवं च 'उदयंमि जा तिही', 'क्षये पूर्वे'त्यादि सर्ववचनानां वैयर्थ्यापत्तेरप्युक्तत्वान्महदसामञ्जस्यापत्तेश्च । किञ्चैवं सति तत्तत्तिथिदिवसव्यवहारेऽपि समातिमत्त्वस्यैव प्रयोजकत्वस्य वाच्यतायां त्रुटितवृद्धचतुर्दश्यादिस्थले सर्वसम्मतैः, लोकेऽपि सूर्योदयानुसारेणैव दिवसादिव्यवहारात्, 'यां तिथिं समनुप्राप्य', 'क्षये पूर्वी तिथिः कार्या वृद्धौ कार्या तथोत्तरा' इत्यादिवचनैः सह तत्रापि विरोधापत्तेर्दुष्परिहरत्वमेवेति । एतेन समाप्तिमत्त्वे सत्यौदयिकत्वस्यापि प्रयोजकत्वं प्रत्युक्तम् । चतुर्दशीपाते तत्र दिने त्रयोदश्यामेव समाप्तिमत्त्वविशिष्टौदयिकत्वसत्त्वेन त्रयोदशीत्येव व्यपदेशापत्तेः । चतुर्दश्यास्तु तत्र समाप्तिमत्त्वेऽप्यौदयिकत्वाभावाद्विशेष्याभावप्रयुक्तविशिष्टाभावस्यैव सत्त्वेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176