Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 162
________________ पर्युषणातिथिविनिश्चयः ॥ १५३ भावादेवौदयिकत्रयोदश्यां चतुर्दशीकरणमस्माकमपि निर्दुष्टमेवेति प्रागुपपादितमेव विभावनीयम् । तथा च पूर्णिमाक्षये त्रयोदश्यामेव चतुर्दशी कर्तव्या, चतुर्दश्यामेव च पूर्णिमा कर्तव्या । इत्थमेव हि द्वयोरपि क्रमिकाराधनाऽनुष्ठानपद्धतिः सम्यगाराधिता भवति । 'यदा पूर्णिमा क्षीयते तदा तत्तपत्रयोदश्यां क्रियते' इति तवाभिमतस्य क्षीणपूर्णिमातपसः त्रयोदशीकर्तव्यताकत्वस्य कुत्राप्यनुपदेशाच्च । न च चतुर्दश्यां द्वयोरपि विद्यमानत्वेन क्षीणपूर्णिमाऽऽराधनस्य चतुर्दश्याराधनायामेवान्तर्भावोऽस्त्विति वाच्यम् । पूर्णिमाऽऽराधनाविलोपापत्तेः । चतुर्दशीपूर्णिमयोरेकरूपेणाऽऽराध्यत्वे मानाऽभावात् । "भिन्नं हि चतुर्दशीपर्व भिन्नं च पूर्णिमापर्वे'ति सार्वदिकशास्त्रपरम्परोभयसिद्धभेदाऽन्यथाऽनुपपत्त्या तयोभिन्नरूपेणैवाऽऽराध्यत्वात् । 'त्रयोदशीचतुर्दश्योः क्रियते' इत्यनेन विरोधापत्तेश्च । तत्र चतुर्दश्यां समावेशमनुक्त्वा पृथक्करणोपदेशात् । न च तत्र चतुर्दश्यां टिप्पनके 'द्वयोरपि विद्यमानत्वेऽप्याराधनायां द्वयोविद्यमानत्वमस्ती'त्यपि युक्तम् । पूर्णिमायाः क्षये आराधनायां 'क्षये पूर्वे' ति वचनेन पूर्वस्या औदयिकचतुर्दश्याः पूर्णिमात्वेन प्रमाणतया कार्यत्वोपदेशात् । टिप्पनकोक्तचतुर्दशीदिने पूर्णिमात्वेनैव प्रामाण्यस्योचितत्वात् । समाप्तिमत्त्वेन भोगवत्त्वेन वा प्रामाण्यस्य प्राग निरस्तत्वात् । 'क्षये पूर्वे' ति विशेषवचनानुसारेण तत्र दिने चतुर्दशीत्वेन प्रामाण्ये मानाभावाच्च। न चात्र पूर्णिमायालुटितत्वेन चतुर्दश्यां पौर्णिमास्या वास्तव्येव स्थितिः । न तु तत्राऽऽरोपिता सती पूर्णिमाऽऽराध्यते । तथा च चतुर्दश्यां तत्र द्वयोरपि चतुर्दशीपूर्णिमयोर्विद्यमानत्वेन तस्या अप्याराधनं जातमेव, न तु तत्क्षये तदाराधनं व्यतीतमेवेति वाच्यम् । 'तयोरेकरूपेणाऽऽराध्यत्वे मानाभावा'दित्यादिना दत्तोत्तरत्वात् । किञ्च, क्षीणपूर्णिमाऽनुष्ठानं चतुर्दश्यामनुष्ठीयमानं किं चतुर्दश्यनुष्ठानं पूर्णिमाऽनुष्ठानं वा व्यपदिश्यते ? आये- पूर्णिमाऽनुष्ठानविलोपापत्तिः । द्वितीये-पाक्षिकाऽनुष्ठानविलोपापत्तिः । न च चतुर्दश्यामेव द्वयोरप्यनुष्ठानं समाविष्टमिति वाच्यम् । अनन्तरोक्तश्रीहीरप्रश्नोत्तरानुसारेण टिप्पनकस्थत्रयोदशीचतुर्दश्योरेव चतुर्दशी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176