Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 161
________________ ग्रन्थत्रयी १५२ नैव कार्य: । परं यदुदयगतायां त्रयोदश्यां चतुर्दशी क्रियते, तदसत् । कुतः ?, औदयिक्येव चतुर्दश्याराध्यते इति । यदुक्तम् - 'यां तिथि समनुप्राप्य उदयं याति भास्करः । सा तिथिः सकला ज्ञेया दानाऽऽध्ययनकर्मसु ॥' इति । तथा च- पूर्णिमाक्ष त्रयोदश्यां चतुर्दशी न कर्तव्येति तात्पर्यम्, इत्यपि निरस्तम् । क्षीणपूर्णिमातपसस्त्रयोदशीकर्तव्यताकत्वे प्रमाणाभावात् । अनन्तरोक्त - श्रीहीरप्रश्नोत्तरस्याऽन्यथैवोपपत्तेरुपदर्शितत्वात् । निष्प्रमाणस्य तपोव्युत्क्रमस्याऽनुपादेयत्वाच्च । न हि, 'तपोव्युत्क्रमव्यामोहो नैव कार्य' इति त्वत्प्रलापमात्रेण तपोव्युत्क्रमव्यामोहस्य दुष्टत्वम् । किन्तु, प्रमाणप्राप्त एवार्थे व्यामोहस्य दुष्टत्वम् । यथाऽतीताऽनागत - प्रत्याख्यानादौ । · न चाऽत्र तपोव्युत्क्रमे किञ्चिदपि प्रमाणमस्ति । प्रत्युत तपसः क्रमिकत्वस्यैव शास्त्रपरम्परोभयसिद्धत्वम्, तपोव्युत्क्रमस्याऽनिष्टत्वं च । "सांवत्सरिक-पाक्षिका- ऽष्टमी - ज्ञानपञ्चमी - रोहिणीतपांसि येन यावज्जीवमुच्चरितानि भवन्ति, स रोहिण्या अग्रतः पृष्ठतो वाऽऽगमने षष्ठकरणशक्त्यभावे किं करोति ? | इति प्रश्नः । अत्रोत्तरम् - सर्वथा षष्ठकरणशक्त्यभावे यत्तपः प्रथममागच्छति, तत्तपः प्रथमं करोति । स्थितं तु पश्चात्कृत्वा प्रापयतीति" श्रीहीरप्रश्नोत्तरादपि त्वया विभावनीयमिति । यच्च ‘यदुदयगतायां त्रयोदश्यां चतुर्दशी क्रियते, तदसत्' इत्याद्युक्तं तदपि 'क्षये पूर्वा तिथिः कार्ये 'ति वचनानालोचनविजृम्भितमेव । किञ्च, चतुर्दशीक्षये त्वयाऽप्यौदयिक्यां त्रयोदश्यामेव चतुर्दशी क्रियते, चतुर्दशीति व्यपदिश्यते चाऽपि । तथा 'चौदयिक्येव चतुर्दश्याराध्यते' इति तव सिद्धान्तस्य त्वयैव व्याहतिर्विधीयते इति किं न विचार्यते । यतः 'यां तिथि समनुप्राप्ये' त्यादिना तत्र त्रयोदश्या एवौदयिकत्वेनाऽहोरात्रव्यापित्वरूपसाकल्यम्, न तु चतुर्दश्याः । इति 'क्षये पूर्वे 'ति विशेषवचनानुसरणं तु द्वयोरपि तुल्यमेव । ननु चतुर्दशीक्षये चतुर्दश्या अनौदियकत्वादेवौदयिकत्रयोदश्यां चतुर्दशीकरणमस्माकं न दोषावहमिति चेत् । पूर्णिमाक्षयेऽपि पूर्णिमाया अनौदयिकत्वादेवौदयिकचतुर्दश्यां पूर्णिमाकरणम्; तथाकरणे च चतुर्दश्या अनौदयिकत्वमेव प्राप्तमिति तत्र चतुर्दश्या अप्यनौदयिकत्व Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176