Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 167
________________ १५८ ग्रन्थत्रयी तपःप्रश्नाऽनवकाश एव । स्यादेव च तदा त्रयोदशीवृद्ध्यकरणे तादृशप्रश्नावकाशः । तदा हि-त्रयोदशीद्वयकरणे प्रथमत्रयोदश्यां प्रारम्भः, द्वितीयत्रयोदश्यां पारणकं, चतुर्दश्यमावास्ययोश्च षष्ठं तप इति सर्व सम्झसमेवेति कुत्र प्रश्नावकाशः ?। त्रयोदशीद्वयाऽकरणे च त्रयोदश्यां प्रारम्भः, चतुर्दश्यां पारणकं, प्रथमामावास्यायां तृतीयदिनं, द्वितीयामावास्यायां कल्पवाचनम् । तत्र त्रयोदशी-चतुर्दश्योर्वा चतुर्दशी-प्रथमामावास्ययोर्वा प्रथमद्वितीयामावास्ययोर्वा षष्ठं तपः कार्यमिति विकल्पत्रयाऽवकाशेन भवत्येव तथाप्रश्नावकाशः । तथा च तत्प्रश्नाऽन्यथाऽनुपपत्त्याऽमावास्यायाः क्षये वृद्धौ त्रयोदश्यां क्षयवृद्ध्यकरणमेव सिद्धमिति चेत् । न। सम्यग्भावाऽपरिज्ञानात् । अन्यथाऽनुपपत्तेरेवाऽभावात् । टिप्पनकेऽमावास्यायाः क्षये वृद्धौ चाऽऽराधनायां त्रयोदशीक्षयवृद्धिकरणेऽपि तत्प्रश्नस्याऽन्यथैवोपपत्तेश्च । भाद्रपदप्रतिपदादिक्षयमाश्रित्य चतुर्दशीकल्पवाचनस्य प्राप्तेः । 'यदा चतुर्दश्यां कल्पो वाच्यते' इति प्रश्नस्योपपत्तेः । येषां मते च पूर्णिमाऽमावास्यावृद्धौ प्रतिपद्वयकरणं, तानाश्रित्य प्रतिपदादिवृद्धि चाऽऽश्रित्य अमावास्यादिवृद्धौ वेति प्रश्नस्याप्युपपत्तेश्च । तथा हि-यदा भाद्रपदप्रतिपत्क्षयस्तदा एकादश्यां पर्युषणाष्टाहिकायाः प्रारम्भः, द्वादश्यां पारणकं, त्रयोदश्यां तृतीयदिनं, चतुर्दश्यां कल्पवाचनं, अमावास्यायां श्रीवीरजन्मवाचनम्। अत्र त्रयोदशी-चतुर्दश्योः षष्ठकरणेऽमावास्यापर्वणि पारणकमागच्छति । चतुर्दश्यमावास्ययोश्च षष्ठकरणे द्वितीयायां पारणकमायाति । तदा पर्युषणाया अष्टमं तपः कुत्र कर्तव्यमित्याद्यभिप्रायवतो भवत्येवाऽत्र षष्ठं तपः क्व विधेयमिति प्रश्नावकाशः । एवं द्वितीया-तृतीया-चतुर्थी-पञ्चम्यन्यतमतिथिक्षयेऽपि भवत्येवाऽस्य प्रश्नस्याऽवकाशः । तथा चाऽनुपपन्नमेव यद् अमावास्याक्षये त्रयोदशीक्षयाऽकरण एवाऽस्य प्रश्नस्योपपत्तिचतुर्दश्यां च कल्पवाचनप्राप्तिरिति । अन्यथैव तदुपपत्तेदर्शितत्वात् । ननु टिप्पनकेऽमावास्यायाः क्षये आराधनायां त्रयोदशीक्षयाऽनादरेश्मावास्याया एव क्षयाऽऽदरेऽपि पूर्वोक्तरीत्या भवत्येवैतत्प्रश्नाऽवकाश इति चेत् । यदि भवेत् तदा भवत्वेव त्वां प्रति तदवकाशः । अस्माकं तु तत्र पूर्णिमामावास्याक्षयवृद्धिस्थले प्रागुपदर्शितशास्त्राबाधितशास्त्रानुसार्यविच्छिन्नसुविहितपरम्परागतत्रयोदशीक्षयवृद्धिकरणप्रवृत्त्यादरवतां तत्प्रश्नस्य न काऽपि बाधकता, नाऽप्यन्यथानुपपत्त्या तत्प्रश्नस्य तादृशप्रवृत्त्यभावसाधकतेति सूपपादितमेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176