Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१४८
अत्रेदं बोध्यम् - यद्यपि, 'क्षये पूर्वे 'ति वचनस्याऽऽराध्यतिथिसामान्यविषयकत्वमेवेति सर्वास्वप्याराध्यतिथिषु तद्वचनस्य प्रवृत्तिः । तथापि, कल्याणकतिथिरूपत्रयोदश्यादितिथ्या टिप्पनके क्षये पूर्वस्यां द्वादश्यादितिथावेव तत्र त्रयोदश्यादितिथित्वेनाऽऽराधनायां प्रामाण्यं स्वीकृत्य कल्याणकतपो- रथयात्रादिमहोत्सवादिरूपकल्याणकादितिथ्याराधना विधीयते । क्षयस्तु तत्र त्रयोदश्या एव गण्यते, भैत्तिकपञ्चाङ्गादावपि त्रयोदश्या एव क्षयो लिख्यते, न तु प्रागुक्तयुक्त्या प्राप्तोऽपि द्वादश्याः क्षयः । तथैव सुविहितपरम्पराया अद्यापि यावदविच्छिनतया प्रवृत्तेः । युक्तं चैतत् । अन्यथा, सर्वत्राऽऽराध्यतिथौ पूर्वपूर्वतिथीनां क्षयस्य गणनीयत्वे द्वित्रादिसम्बद्धाऽऽराध्यतिथिस्थले क्वचित् तिथिद्वयव्यवहिततिथेः, क्वचित् तिथित्रयव्यवहिततिथेः क्षयस्य गणनीयत्वे प्राप्ते तिथिव्यवहारव्यवस्थाविप्लवप्रसङ्गात् ।
ग्रन्थत्रयी
एवं वृद्धिस्थलेऽपि टिप्पनके तादृशत्रयोदश्यादिवृद्धावाराधनायामुत्तरस्यामेव त्रयोदश्यादौ त्रयोदश्यादितिथित्वेन प्रामाण्यं स्वीकृत्य कल्याणकादितिध्याराधना क्रियते । वृद्धिस्तु त्रयोदश्या एव गण्यते, न तु प्रागुक्तयुक्त्या प्राप्ताऽपि द्वादश्या इति ।
किञ्च, आराध्यतिथित्वं यथा द्वितीयादिनित्यपर्वतिथिषु यथा वा कल्याणकतिथिषु तथोपधानमालापरिधापनतिथि- सङ्घपतिमालापरिधापनतिथिः प्रतिष्ठयतिथिप्रतिमास्थापनतिथि-स्वप्रव्रज्यातिथ्युपस्थापनातिथि - सूरिपदादितिथि- स्वगुर्वादिनिर्वाणादितिथिप्रभृतितिथिष्वपि वर्तते ।
तथा च सर्वत्राऽऽराध्यतिथौ टिप्पनके क्षये वृद्धौ वाऽऽराधनायाः क्रमेण पूर्वस्यामुत्तरस्यां च तिथौ करणीयत्वेऽपि क्षयो वृद्धिश्च नित्यपर्वतिथिव्यतिरिक्ततिथिस्थलेषु सर्वत्र तस्या एव टिप्पनकोक्तक्षीण वृद्धतिथेः गण्यते, न तु पूर्वस्याः [उत्तरस्याश्च ] । तथा च यत्र यत्र द्वितीयादिनित्यपर्वतिथिषु यत्र यत्र च कल्याणकतिथ्यादिरूपनैमित्तिकाऽऽराध्यतिथिषु 'क्षये पूर्वेति वचनानुसारिणी यादृशी यादृश्यविच्छिना सुविहितपरम्पराऽऽगता प्रवृत्तिः, तत्र तत्र तिथौ क्षय - वृद्धिस्थले तादृश्येव प्रवृत्तिः प्रमाणयितव्या । न तत्र कश्चित् शङ्काकणावकाशोऽपि । तथैव कर्मनिर्जरोपपत्तेः, तथैव च सर्वत्र सर्वदा तिथिव्यवस्थोपपत्तेः ।
I
इत्थं च क्वचित् नित्यपर्वतिथ्युत्तरवर्तिन्या आराध्यतिथेः टिप्पनके क्षयेऽपि तत्राऽऽराधनायामपि तस्या एव क्षयो गण्यते, न तु तत्पूर्वस्या नित्यपर्वतिथेः । नैमित्तिकाऽऽराध्यपर्वतिथिभ्यो नित्यपर्वतिथीनां बलिष्ठवात् । आराधनाऽपि तस्यास्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176