Book Title: Granthtrai
Author(s): Vijayanandsuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 156
________________ पर्युषणातिथिविनिश्चयः ॥ १४७ व्यापितया क्रियाकालेऽपि वर्तमानत्वात् । त्रुटितचतुर्दश्यादिस्थले तु तत्पूर्वस्यास्त्रयोदश्यादितिथेरेव चतुर्दश्यादितिथित्वेन प्रमाणीकार्यत्वस्य वृद्धतिथिस्थले चोत्तरस्या एव तत्तिथित्वेन प्रमाणीकार्यत्वस्य 'क्षये पूर्वा तिथि: कार्या वृद्धी कार्या तथोत्तरा' इत्यनेन सुव्यवस्थापितत्वात् । 'सूर्योदयानुसारेणैव' इत्यत्र एवकारेणौदयिकत्वातिरिक्तान्यसमाप्तिमत्त्वभोगवत्त्वा-ऽल्पभोगवत्त्व-बहुभोगवत्त्व-सूर्योदयसूर्यास्तोभयस्पर्शित्वप्रभृतिसर्वप्रकाराणां तिथिप्रामाण्यप्रयोजकत्वव्यवच्छेदाच्चेति। ननु तत्र तत्र, 'अर्हज्जन्मादि पञ्चकल्याणकदिवसाश्चापि पर्वतिथित्वेन विज्ञेयाः', इत्याधुक्ते. कल्याणकदिवसानामपि पर्वतिथित्वं प्रतिपादितमिति कल्याणकतिथीनां टिप्पनके क्षयः स्यात्तदा तत्रापि 'क्षये पूर्वे'ति वचनेन तत्पूर्वस्यास्तिथेः क्षयः कार्यों न वा ?। एवं यत्र टिप्पनके पूर्णिमाक्षयः त्रयोदश्याच कल्याणकतिथित्वं तत्र त्रयोदश्या एव क्षयः कार्यः किं वा द्वादश्याः ? इति चेत् । उच्यते - कल्याणकतिथीनां क्षये तत्र तत्र तत्पूर्वस्यास्तिथेः क्षयो नैव गणनीयः । एवं पूर्णिमाक्षयेऽपि सर्वदा सर्वत्र त्रयोदश्या एव क्षयो गणनीयः, न तु क्वापि द्वादश्याः । एवं तदृद्धावपि बोध्यम् । न चाऽऽराध्यत्वे पञ्चदशीकल्याणकतिथ्योरप्यविशेष इति वाच्यम् । आराध्यत्वमात्रेण साम्येऽप्येकरूपेण तयोराराध्यत्वाभावात् । चतुष्पा अप्येकरूपेणाराध्यत्वाभावस्य तवापीष्टत्वाच्च । तथा च कल्याणकदिवसानां पर्वतिथित्वेऽपि तत्क्षये तदृद्धौ च तत्र विषये 'क्षये पूर्वे' ति वचनानुसारिण्यास्तथाविधायाः परम्पराया एवाऽभावात् । मुख्यत्वेन द्वितीयादिषट्पींविषय एव 'क्षये पूर्वे'ति वचनानुसारिण्यास्तथाविधायाः प्रागुपदर्शितपरम्पराया अविच्छिन्नतया विद्यमानत्वम् । वस्तुतस्तु कल्याणकदिवसानां यत् पर्वत्वं तत्तु तत्तत्कल्याणकनिमित्तकमेवेति कल्याणकतिथीनां नैमित्तिकपर्वतिथित्वमेव, न तु नित्यपर्वतिथित्वम् । द्वितीयादिदिवसानां पर्वत्वं न तथा तत्तनिमित्तकं, किन्तु नित्यमेवेति द्वितीयादितिर्थीनां नित्यपर्वतिथित्वमिति। 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरे ति विशेषवचनानुसारिण्यास्तथाविधायाः परम्पराया मुख्यत्वेन नित्यपर्वतिथिविषयकत्वमेव दृश्यते । न कल्याणकतिथिविषयकत्वमिति न कोऽपि दोषो न वा काऽप्यव्यवस्थेत्येवमस्माकं सम्यक्प्रतिभातीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176